Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 38
________________ विशेषा० ॥८३६॥ Jain Education Interna कथं पुनर्द्रव्यस्य कालोऽन्तरङ्गः, न तु क्षेत्रम् इत्याह 'जं वत्तणाइरूवो वत्तुरणत्थंतरं मओ कालो । आहारमित्तमेव उ खेत्तं तेणंतरंगं सो ॥ २०२७ ॥ वर्तनाऽऽदिर्येषां परिणामादीनां ते वर्तनादयः त एव रूपं यस्यासौ वर्तनादिरूपस्तीर्थकरादीनां संमतः कालः उक्तं च"वर्तनापरिणामः क्रिया पराऽपरत्वे च कालस्योपग्रहः" इति । तत्र विवक्षितेन नव-पुराणादिना तेन तेन रूपेण यत् पदार्थानां वर्तनं शश्वद् भवनं स वर्तनापरिणामोऽभ्रादीनां सादिः, चन्द्रविमानादीनामनादिः, क्रिया देशान्तरमाप्तिलक्षणा, देवदत्ताद् यज्ञदत्तः परः- पूर्वमुत्पन्नः, यज्ञदत्तात् पुनर्देवदत्तोऽपरः- अर्वागुत्पन्न इत्यादिरूपं परापरत्वम् इत्येतानि कालस्योपग्रह उपकारः । एतानि चत्वार्यपि कालकृतत्वात् तल्लिङ्गानीति भावः । स च वर्तनादिरूपः कालो यद् यस्माद् वर्तितुर्द्रव्यादनर्थान्तरमभिन्नस्वरूप एव वर्तते । क्षेत्रं तु द्रव्यस्याधारमात्रमेव, न त्वनर्थान्तरम् । तेन द्रव्यस्यान्तरङ्गः कालः, बहिरङ्गं तु क्षेत्रम् । अतो द्रव्यनिर्गमादनन्तरं कालनिर्गमोऽभिधीयत इति ।। २०२७ ॥ 1 तत्र कालशब्दव्युत्पादनार्थमाह केलणं पज्जायाणं कलिज्जए तेण वा जओ वत्थु । कलयंति तयं तम्मि व समयाइकलासमूहो वा ॥२०२८॥ 'कल शब्द-संख्यानयोः' नव-पुराणादीनां समयादीनां वा पर्यायाणां कलनं संशब्दनं, संख्यानं वा भावप्रत्यये कालः । अथवा, ' मासिकोऽयम्' 'सांवत्सरिकोऽयम्' 'शारदोऽयम्' इत्यादिरूपेण कल्यते परिच्छिद्यते यतो यस्माद् वस्त्वनेनेति कालः । अथवा, कलयन्ति ज्ञानिनः समयादिरूपेण परिच्छिन्दन्ति तमिति कालः । यदिवा, 'मासिकोऽयम्' 'सांवत्सरिकोऽयम्' इत्यादिरूप - तथा कलयन्ति परिच्छिन्दन्ति वस्तु तस्मिन् सतीति कालः । समयादिकलानां वा समूहः कालः । आह- ननु सामूहिके प्रत्यये नपुंसकत्वं प्राप्नोति, यथा कापोतं मायूरमित्यादि । सत्यम्, किन्तु शिष्टप्रयोगाद् रूढितश्चादोषः तथा चाह- “लिङ्गमशिष्यं लोकाश्रयत्वात् " ( पा० म० २,४,१, १२) इति । तदेवं कालस्यान्तरङ्गता निरुक्ती भणिते ।। २०२८ ।। इदानीमुत्तरगाथासंबन्धनार्थमाह १ यद् वर्तनादिरूपो वर्तितुरनर्थान्तरं मतः कालः | आधारमात्रमेव तु क्षेत्रं तेनान्तरङ्गं सः ॥ २०२७ ॥ २ करूनं पर्यायाणां कल्यते तेन वा यतो वस्तु कलयन्ति तत् तस्मिन् वा समयादिकलासमूहो वा ॥ २०२८ ॥ For Personal and Private Use Only बृहद्वत्तिः । ||८३६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202