________________
विशेषा०
॥८३६॥
Jain Education Interna
कथं पुनर्द्रव्यस्य कालोऽन्तरङ्गः, न तु क्षेत्रम् इत्याह
'जं वत्तणाइरूवो वत्तुरणत्थंतरं मओ कालो । आहारमित्तमेव उ खेत्तं तेणंतरंगं सो ॥ २०२७ ॥
वर्तनाऽऽदिर्येषां परिणामादीनां ते वर्तनादयः त एव रूपं यस्यासौ वर्तनादिरूपस्तीर्थकरादीनां संमतः कालः उक्तं च"वर्तनापरिणामः क्रिया पराऽपरत्वे च कालस्योपग्रहः" इति । तत्र विवक्षितेन नव-पुराणादिना तेन तेन रूपेण यत् पदार्थानां वर्तनं शश्वद् भवनं स वर्तनापरिणामोऽभ्रादीनां सादिः, चन्द्रविमानादीनामनादिः, क्रिया देशान्तरमाप्तिलक्षणा, देवदत्ताद् यज्ञदत्तः परः- पूर्वमुत्पन्नः, यज्ञदत्तात् पुनर्देवदत्तोऽपरः- अर्वागुत्पन्न इत्यादिरूपं परापरत्वम् इत्येतानि कालस्योपग्रह उपकारः । एतानि चत्वार्यपि कालकृतत्वात् तल्लिङ्गानीति भावः । स च वर्तनादिरूपः कालो यद् यस्माद् वर्तितुर्द्रव्यादनर्थान्तरमभिन्नस्वरूप एव वर्तते । क्षेत्रं तु द्रव्यस्याधारमात्रमेव, न त्वनर्थान्तरम् । तेन द्रव्यस्यान्तरङ्गः कालः, बहिरङ्गं तु क्षेत्रम् । अतो द्रव्यनिर्गमादनन्तरं कालनिर्गमोऽभिधीयत इति ।। २०२७ ॥
1
तत्र कालशब्दव्युत्पादनार्थमाह
केलणं पज्जायाणं कलिज्जए तेण वा जओ वत्थु । कलयंति तयं तम्मि व समयाइकलासमूहो वा ॥२०२८॥
'कल शब्द-संख्यानयोः' नव-पुराणादीनां समयादीनां वा पर्यायाणां कलनं संशब्दनं, संख्यानं वा भावप्रत्यये कालः । अथवा, ' मासिकोऽयम्' 'सांवत्सरिकोऽयम्' 'शारदोऽयम्' इत्यादिरूपेण कल्यते परिच्छिद्यते यतो यस्माद् वस्त्वनेनेति कालः । अथवा, कलयन्ति ज्ञानिनः समयादिरूपेण परिच्छिन्दन्ति तमिति कालः । यदिवा, 'मासिकोऽयम्' 'सांवत्सरिकोऽयम्' इत्यादिरूप - तथा कलयन्ति परिच्छिन्दन्ति वस्तु तस्मिन् सतीति कालः । समयादिकलानां वा समूहः कालः । आह- ननु सामूहिके प्रत्यये नपुंसकत्वं प्राप्नोति, यथा कापोतं मायूरमित्यादि । सत्यम्, किन्तु शिष्टप्रयोगाद् रूढितश्चादोषः तथा चाह- “लिङ्गमशिष्यं लोकाश्रयत्वात् " ( पा० म० २,४,१, १२) इति । तदेवं कालस्यान्तरङ्गता निरुक्ती भणिते ।। २०२८ ।।
इदानीमुत्तरगाथासंबन्धनार्थमाह
१ यद् वर्तनादिरूपो वर्तितुरनर्थान्तरं मतः कालः | आधारमात्रमेव तु क्षेत्रं तेनान्तरङ्गं सः ॥ २०२७ ॥ २ करूनं पर्यायाणां कल्यते तेन वा यतो वस्तु कलयन्ति तत् तस्मिन् वा समयादिकलासमूहो वा ॥ २०२८ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
||८३६ ॥
www.jainelibrary.org