________________
विशेषा. 100
सो वत्तणाइरूवो कालो दव्वस्स चेव पज्जाओ। किंचिम्मेत्तविसेसेण दव्वकालाइववएसो ॥ २०२९ ॥
स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । ततः पर्यायरूपतया तत्त्वत एकरूपस्यापि तस्य किञ्चिन्मात्रविशेषविवक्षया द्रव्यकाला, अद्धाकाला, यथाऽऽयुष्ककाल इत्यादिव्यपदेशः प्रवतेते ॥ इति भाष्यगाथाचतुष्टयाथैः ।। २०२९ ।।
तेषामेव द्रव्य-कालादिभेदानां प्रतिपादनार्थ नियुक्तिकारः प्राहदेव्वे अह अहाउ य उवक्कमे देस-कालकाले य । तह य पमाणे वन्ने भावे, पगयं तु भावणं ॥ २०३०॥ __ इह नाम-स्थापने सुखावसेयत्वाद् नोक्ते । शेषास्तु नव कालभेदाः प्रोच्यन्ते । तत्र द्रव्य इति वर्तनादिरूपो द्रव्यकालो वाच्यः । 'अद्धेति' चन्द्र-सूर्यादिक्रियाभिव्यङ्गयोऽर्धतृतीयद्वीप-समुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः । तथा, यथायुष्ककालो देवाद्यायुष्ककालो देवाद्यायुष्कलक्षणो वक्तव्यः। तथा, उपक्रमकालोऽभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारी-यथायुष्कभेदभिन्नोऽभिधानीयः। तथा, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरम् , स देशरूपः कालो देशकालो वक्तव्यः, अभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः । तथा, कालकालोभिधानीयः, तत्रैकः कालशब्दोऽनन्तरनिरूपितशब्दार्थः, द्वितीयस्तु समयपरिभाषया कालो मरणमुच्यते । ततश्च कालस्य मरणक्रियारूपस्य कलनं कालः काल इत्यर्थः । तथा, प्रमाणकालोऽद्धाकालस्यैव विशेषभूतो दिवसादिलक्षणो वक्तव्पः । तथा, वर्णश्चासौ कालश्च वर्णकालो भणनीयः । तथा, 'भावे त्ति' औदयिकादेर्भावस्य सादिसपर्यवसानादिभेदभिन्नः कालो भावकालः प्ररूपणीयः । 'पगयं तु भावणं ति' प्रकृतं प्रस्तुतं पुनरत्र भावेन- भावकालेनेहाधिकारः। शेषास्तु द्रव्य-कालादयः कालभेदमात्रतः प्ररूपिताः ॥ इति नियुक्तिद्वारगाथासंक्षेपार्थः ।। २०३० ॥
अथ प्रतिद्वारं विस्तरार्थमभिधित्सुराहचेयणमचेयणस्स य दबस्स ट्ठिई उ जा चउविगप्पा । सा होइ दव्वकालो अहवा दवियं तयं चेव ॥२०३१॥ 'चैतनं' इति विभक्तिव्यत्ययात् षष्ठी द्रष्टव्या । वाशब्दः समुच्चये । ततश्च चेतनस्य सुर-नारकादेरचेतनस्य च पुद्गलस्कन्धा
स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । किञ्चिन्मात्रविशेषेण द्रव्य-कालादिव्यपदेशः ॥ २०२९ ॥ २ द्रव्यमद्धा यथायुश्चोपक्रमो देश-कालकालो च । तथा च प्रमाणं वर्णो भावः, प्रकृतं तु भावेन ॥ २०३०॥ ३चेतनस्याचेतनस्य च द्रव्यस्य स्थितिस्तु या चतुर्विकल्या । सा भवति द्रव्यकालोऽथवा द्रव्यं तदेव ।। २०३१ ।।
८३७॥
Jan Education Interat
For Personal and Price Use Only