________________
बृहद्वत्तिः ।
विशेषा० ॥८३८॥
देव्यस्य च याऽवस्थानरूपा स्थितिः सा सादिसपर्यवसानादिभेदाच्चतुर्विकल्पा चतुर्भदा । सा स्थितिर्भवति । किम् , इत्याह- द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात् ; अथवा, तदेव सचेतना-ऽचेतनरूपं द्रव्यं कालो द्रव्यकालः प्रोच्यते, पर्याय-पर्यायिणारभेदोपचारात् ॥ इति नियुक्तिगाथार्थः ।। २०३१ ॥
अथैतां भाष्यकारो व्याचिख्यासुराहदेवस्स वत्तणा जा स दव्वकालो तदेव वा दव्वं । न हि वत्तणाइरित्तं जम्हा दव्वं जओऽभिहिअं॥२०३२॥
सुत्ते जीवा-ऽजीवा समया-ऽऽवलियादओ पवुच्चंति । दव्वं पुण सामन्नं भण्णइ दव्वट्ठयामेत्तं ॥२०३३॥
द्रव्यस्य या सादिसपर्यवसानादिलक्षणा तेन रूपेण वृत्तिर्वर्तना स द्रव्यस्य कालो द्रव्यकालः समुत्कीर्त्यते । अथवा, तदेव चेतनाचेतनं द्रव्यं कालो द्रव्यकाल इष्यते । कुतः ? इत्याह- न खलु यस्माद् वर्तना-परिणामादिभ्यो भिन्नं पृथग्भूतं द्रव्यमस्ति, यतोऽभिहितं सूत्र आगमे । किमभिहितम् ? इत्याह- 'जीवा-ऽजीवेत्यादि' समया-ऽऽवलिकादयः कंऽभिधीयते ? इत्याह- जीवाऽजीवाः-जीवा-उजीवद्रव्याण्येव समया ऽऽवलिकादयो भण्यन्ते, न पुनस्तब्यतिरिक्तास्त इति भावः । तदेवं जीवा-ऽजीवेभ्योऽव्यतिरिक्तः समया-ऽऽवलिकादिरूपः कालः । ते च जीवा-उजीवा द्रव्यार्थतामात्ररूपं सामान्यतो द्रव्यमुच्यते । ततो द्रव्यमेव कालो द्रव्यकाल इति सिद्धम् । इह चागमोक्तोऽर्थ एव लिखितः, सूत्रं पुनरित्थमवगन्तव्यम् - "किमयं भंते ! काले ति पवुच्चइ ? । गोयमा ! जीवा चेव अजीया चेव" इति ॥ २०३२ ॥ २०३३।।
कथं पुनश्चेतनस्याचेतनस्य च द्रव्यस्य चतुर्विधा स्थितिः ? इत्याहसुर-सिद्ध-भव्वा-ऽभव्वा साइ-सपज्जवसियादओ जीवा । खंधाणागयतीया नभादओ चयणारहिया ॥२०३४॥ सुरग्रहणस्योपलक्षणत्वात् सुर-नारक-तिर्यग् मनुष्याः सुरत्वादिपर्यायमधिकृत्य सादिसपर्यवसितस्थितयः । सिद्धाः, प्रत्येक
व्यस्य वर्तना या स द्रव्यकालस्तदेव वा द्रव्यम् । न हि वर्तनातिरिक्तं यस्माद् द्रव्यं यतोऽभिहितम् ॥ २०३२ ॥ सूत्रे जीवा अजीवाः समया-ऽऽवलिकादयः प्रोच्यन्ते । द्रव्यं पुनः सामान्य भण्यते द्रव्यार्थतामात्रम् ॥ २०३३ ॥ २ किमयं भगगन् ! काल इति प्रोच्यते ! । गौतम ! जीवाचव, अजीवात्रैव ।। ३ सुर-सिद्ध-भव्या-उभव्याः सादिसपर्यवसितादयो जीवाः । स्कन्धा अनागता-ऽतीता नभआदयश्चेतनारहिताः ॥ २०३४ ॥
॥८३८॥
Jan E
inema
For Personal and Price Use Only
www.jainelibrary.org