________________
बृहद
सिद्धत्वमधिकृत्य, साथपर्यवसानाः । भव्यजीवाः, भव्यत्वमाश्रित्य, केचनाप्यनादिसपर्यवसानाः, सिद्धे नो भच्चे, नो अभचे" विशेषा. इति वचनात् सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः । अभव्यजीवाः, अभव्यत्वमङ्गीकृत्य, अनाद्यपर्यवसिताः । इत्येवं चेतनद्रव्यस्य सादि-
सपर्यवसितादिका चतुर्विधा स्थितिः । अचेतनद्रव्यमुररीकृत्याह- 'खंधेत्यादि' ब्यणुकादिस्कन्धाः सादिसपर्यवसिताः, एकेन न्यणुक॥८३९॥
वादिना परिणामेनोत्कृष्टतोऽपि पुद्गलद्रव्यस्यापि संख्येयकालमेव स्थितेः। अनागताद्धा भविष्यत्कालरूपा साद्यपर्यवसिता । अतिक्रान्तकालरूपाऽतीताद्धा अनादिसपर्यवसिता । आकाश-धर्मा-ऽधर्मास्तिकायादयस्त्वनाद्यपर्यवसिताः । इत्येवं चेतनारहितस्यापि द्रव्यस्य चतुर्विधा स्थितिः । तदेवमभिहितो द्रव्यकालः ॥ २०३४ ॥
सांपतमद्धाकालस्वरूपोपदर्शनार्थमाह
सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयखेत्तम्मि समयाई ॥२०३५॥
सूरो भास्करस्तस्य क्रिया मेरोश्चतसृष्वपि दिक्षुप्रदक्षिणतोऽजस्रं भ्रमणलक्षणा, सूरस्योपलक्षणत्वाच्चन्द्र-ग्रह-नक्षत्र-ताराणामपीहत्थंभूता क्रिया गृह्यते, तया सूर्यादिक्रियया विशिष्टो विशेषितो व्यक्तीकृतोऽर्धतृतीयद्वीपसमुद्रलक्षणे समयक्षेत्रे यः समया-ऽऽवलिकादिTo रथः प्रवर्तते, न परतः, सूर्यादिक्रियाऽभावात् , सोऽद्धाकालो भण्यते । क्रियैव परिणामवती कालो नान्य इति । ये कालमपदुवते ON तन्मतव्यवच्छेदार्थमाह-गोदोहादिक्रियासु निरपेक्षः । न खलु यथोक्तोऽद्धाकालः क्रियां गोदोहाद्यामिकामपेक्ष्य प्रवर्तते, किन्तु सूर्यादिगतिम् । तथाहि-यावद् यावत् क्षेत्र स्वकिरणैर्दिनकरश्वलन्नुयोतयते तद् दिवस उच्यते, परतस्तु रात्रिः, तस्य च दिवसस्य परमनिकृष्टः सूक्ष्मोऽसंख्याततमो भागः समयः, ते चासंख्येया आवलिका इत्यादि । एवं च प्रवृत्तस्यास्य कालस्य सूर्यादिगतिक्रियां विहाय कान्या गोदोहादिक्रियापेक्षा ? ॥ इति भाष्यगाथाचतुष्टयार्थः ॥ २०३५॥
के पुनस्ते समयादयोऽद्धाकालभेदाः ? इत्याह नियुक्तिकारःसमया-ऽऽवलि-मुहुत्ता दिवसमहोरत्त-पक्ख-मासा य। संवच्छर-युग-पलिया सागर-ओसप्पि-पलियट्टा ॥२०३६॥
८३
सिद्धा नो भव्या नो अभव्याः। २ सूरक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयक्षेत्रे समयादयः ॥ २०३५॥ ३ समया-ऽऽवलि-मुहूता दिवसमहोरात्र-पक्ष-मासाश्च । संवत्सर-युग-पल्यानि सागरो सपिणी-परावर्ताः ॥ २०३६॥
Jan Educationainter
For Personal and
Use Only