SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ ८४०॥ Jain Education Internatio इह निर्विभागः परमसूक्ष्मकालांशः समयो भण्यते । स च प्रवचनप्रतिपादितोत्पलपत्र शतपट्ट साटिकापाटनदृष्टान्ताद् विशेषतः समवसेयः । असंख्येयसमयसमुद्यसमितिसमागमनिष्पन्ना आवलिका । द्विघटिको मुहूर्त: । दिवसकरप्रभाप्रकाशितनभः खण्डरूपः, चतुरात्मको वा दिवसः । सूर्यकिरणस्पृष्टव्योमखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः सूर्यकिरणास्पृष्टव्योमखण्डरूपा, चतुर्या मात्मिका वा रात्रिः, तदुभयं त्वहोरात्रम् । पञ्चदशाहोरात्राणि पक्षः । पक्षद्वयात्मको मासः । द्वादशमासनिर्वृत्तः संवत्सरः । पञ्चसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटी कोटिघटितं सागरोपमम् । दशसागरोपमकोटी कोट्यात्मिकोत्सर्पिणी । एवमवसर्पिण्यपि । अनन्ताभिरुत्सर्पिण्य वसर्पिणीभिः पुद्गलपरावर्तः । स च द्रव्यादिभेदभिन्नः प्रवचनादवसेयः ॥ इति नियुक्तिगाथार्थः || २०३६ ।। अथ यथाकालं विभणिषुर्भाष्यकारस्तत्स्वरूपमाह - यमेतसि स एव जीवाण वत्तणाइमओ । भण्णइ अहाउकालो वत्तइ जो जच्चिरं जेण ॥२०३७|| स एवोक्तरूपोऽद्धकालो वर्तनादिमयो जीवानां नारक- तिर्यग्नरा-मराणां यथायुष्ककालो भण्यते । किं सर्वोऽपि १ । न, इत्याह- आयुष्कमात्र विशिष्टः- नारकाद्यायुष्कमात्रविशेषित इत्यर्थः, अत एवायं यथायुष्ककालो भण्यते । यद्येन तिर्यग्-मनुष्यादिना जीवेन यथा येन रौद्राऽर्त धर्मध्यानादिना प्रकारेणोपार्जितमायुर्यथायुष्कम्, तस्यानुभवनकालो यथायुष्ककालः । कियन्तमवधिं यावदसौ भवति इत्याह- यो जीवो येनात्मवद्धेनायुषा 'जच्चिरं ति' यावन्तमन्तर्मुहूर्तादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तं कालं वर्तते, स तस्य जीवस्य तावन्तमवधिं यावद् यथायुष्ककालो भवतीति तात्पर्यार्थः । इत्येवं विवक्षामात्रकृतोऽद्धाकाल - यथायुष्ककालयोर्भेदः । अतोऽदाकालस्यैव विशेषभूतत्वात् तदनन्तरं यथायुष्ककालमाहेति भावः ॥ इति गाथार्थः ॥। २०३७ ॥ इति विहितसंबन्धमेव यथायुष्ककालं नियुक्तिकारः प्राह नेरइय- तिरिय- मणुआ- देवाण अहाउयं तु जं जेणं । निव्वत्तियमन्नभवे पालंति अहाउकालो उ ॥२०३८॥ नारक-तिर्यग्-मनुष्य-देवानां मध्याद् यद् येन जीवेन यथा येन रौद्रध्यानादिना प्रकारेणान्यभवे पूर्वजन्मन्यभिनिर्वर्तितमायु १ आयुर्माविशिष्टः स एव जीवानां वर्तनादिमयः । भण्यते यथायुःकालो वर्तते यो यश्चिरं येन ॥। २०३७ ॥ २ नैरयिक- तिर्यग्- मनुज देवानां यथायुष्कं तु यद् येन । निर्वर्तितमन्यभवे पालयन्ति यथायुःकालस्तु ।। २०३८ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥८४०॥ w.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy