SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ वृहद्वत्तिः । रेतद् यथायुरिहोच्यते। तच्च यदा त एव नारकादयो विपाकतः पालयन्ति- अनुभवन्ति, तदाऽसौ तेषां यथायुष्ककालोऽभिधीयते । विशेषातुशब्दो द्रव्यकालादिभ्योऽस्य विशेषणार्थः ॥ इति नियुक्तिगाथार्थः ।। २०३८ ॥ अथोपक्रमकालं विभणिषुर्भाध्यकारस्तत्स्वरूपमाह 'जेणोवक्कामिज्जइ समीवमाणिजए जओ जं तु । स किलोवक्कमकालो किरियापरिणामभूइट्ठो ॥ २०३९॥ ___ 'क्रम पादविक्षेपे' विवक्षितस्य दूरस्थस्य वस्तुनस्तैस्तैरुपायभूतैः क्रियाविशेषैरुपक्रमणं सामीप्यानयनमुपक्रमः । अथवा, येन क्रियाविशेषेणोपक्रम्यते- दूरस्थं समीपमानीयते, स उपक्रमः, यतो वा क्रियाविशेषादुपक्रम्यते, यद् वा सामाचारीप्रभृतिकं वस्तूपक्रम्यते स उपक्रमः, तस्य कालोऽप्युपचारादुपक्रमकाल एवोपक्रमकालः। किलशब्द आप्तवचनत्वोपदर्शनार्थः । अयं च बहुभिः क्रियापरिणामैर्भूयिष्ठः प्रचुरो भवति, प्रभूताः क्रियापरिणामा इह भवन्ति, बढ्योऽत्रायुष्काद्युपक्रमहेतुभूताः क्रिया भवन्तीति यावत् । तथा च वक्ष्यति _ 'अझवसाण निमित्ते आहारे वेयणा पराघाए । फासे आणापाणू सत्तविहं भिज्जए आउं ॥ १ ॥ इत्यादि । इति गाथार्थः ॥ २०३९ ॥ अयं च द्विविधो भवति कथम् ? इत्याह नियुक्तिकारः दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥२०४०॥ यथोक्त उपक्रमकालो द्विविधः । तदेव द्वैविध्यं दर्शयति-सामाचार्युपक्रमकालः, यथायुष्कोपक्रमकालश्च। तत्र समाचारः शिष्टजनसमाचरितः क्रियाकलापस्तस्य भाव इति "गुणवचनब्राह्मणादिभ्यः कर्मणि च"(पा०५,१,१२४) इति व्यञ्प्रत्यये सामाचार्यम् , ततः 'सामग्री' इत्यादाविव स्त्रीत्वविवक्षायामीप्रत्यये यलोपे च 'सामाचारी' इति भवति, तस्या उपक्रमणमुपरितनश्रुतादिहानयनं सामाचार्युपक्रमः, स चासावुपचारात् कालश्च सामाचार्युपक्रमकालः । यथाबद्धस्यायुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेनैव क्षपणं यथायुष्कोपक्रमः, स चासावुपचारात् कालश्च यथायुष्कोपक्रमकालः । यः सामाचार्युपक्रमणद्वारेणोपक्रम्यते कालः स सामाचार्युपक्रमकालः, , येनोपक्रम्यते समीपमानीयते यतो यत् तु । स किलोपक्रमकालः क्रियापरिणामायष्ठः ॥ २०३९॥ २ गाथा २०४१। ३ विविध उपक्रमकालः सामाचारी यथायुष्कं चैव । सामाचारी विविधीधो दशधा पविभागः ॥ २०४०॥ ||८४१॥ 4ww.janmbrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy