SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ SIOSसारख विशेषा० ॥८४२॥ यस्त्वायुष्कोपक्रमणद्वारेणोपक्रम्यते स यथायुष्कोपक्रमकाल इतीह तात्पर्यम् । तत्र सामाचारी त्रिविधा । कथम् ? । 'ओहे दसहा पयविभागे त्ति' ओघः सामान्यं तेन सामाचारी ओघसामाचारी, सामान्येन संक्षेपतः साधुसमाचाराभिधानरूपा। सा चौघनियुक्तर्वेदितव्या। दशधासामाचारी पुनरिच्छाकार-मिथ्यादुष्कृतादिदशविधसाधुसमाचाररूपा । सा च 'इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥१॥ उवसंपया य काले सामायारी भवे दसविहा उ ।। इत्यादिमूलावश्यकनियुक्ती संक्षेपतः प्रतिपादिता, इह तु सुगमत्वाद् भाष्यकृता नोक्ता, इति तत एवानुसरणीयेति । पदविभागसामाचारी छेदसूत्राणि । कुतः पुनरुपरिमश्रुतादियं त्रिविधापि सामाचार्युपक्रान्ता ? इति चेत् । उच्यते- ओघसामाचारी तावद् नवमपूर्वगताऽऽचाराभिधानतृतीयवस्तुनि यद् विंशतितमं प्राभृतं तदन्तर्गतौघप्राभृतप्राभृतादुनृत्योपक्रम्पौधनियुक्तिरूपसंक्षिप्तग्रन्थान्तररूपतया ग्रथित्वा कारुण्यधनैः परोपकारनिरतैः स्थविरैस्तथाविधायु-र्बल-मेधादिरहितानामैदंयुगीनानां साधूनां यथोक्तोपरिमश्रुतस्याध्ययनयोग्यत्वाभावं, पुरस्तात् तद्व्यवच्छेदं चापेक्ष्य, अनुग्रहार्थ सुखेनैवाध्ययन-परावर्तन चिन्तन-तदर्थपरिज्ञाना-ऽनुष्ठानार्थ प्रत्यासन्नीकृत्य प्रदत्ता। दशविधसामाचारी पुनरुत्तराध्ययनेभ्यः षड्विंशतितमाध्ययनादुनृत्योपक्रम्य स्वल्पतरकालप्रव्रजितानां यथोक्तश्रुताध्ययनायोग्यानां साधूनामनुग्रहार्थं प्रत्यासन्नीकृत्य प्रदत्ता । पदविभागसामाचार्यपि च्छेदग्रन्थगतसूत्ररूपा नवमपूर्वादेव नियूटेति ॥ २०४० ॥ अथ यथायुष्कोपक्रमकालमाहअज्झवसाण निमित्त आहारे वेयणा पराघाए । फासे आणापाणू सत्तविहं 'भिज्जए आउं ॥ २०४१ ॥ अतिहर्ष-विषादाभ्यामधिकमवसानं चिन्तनमध्यवसानं तस्माद् भिद्यते खण्ड्यत उपक्रम्यत आयुः, अतिशयेन हृदयसंरोधात् । अथवा, राग-स्नेह-भयभेदादध्यवसानं त्रिधा, तस्मादायुर्भिद्यते । यर्था- एक रूपाधिकं युवानं जलं पीत्वा निवृत्तमपि वीक्षमाणा इच्छा मिथ्या तथाकार आवश्यकी च नैषधिको । आपृच्छना च प्रतिष्ठा छन्दना च निमन्त्रणा ॥१॥ उपसंपदा च काले सामाचारी भवेद् दशविधा तु। २ आवश्यकनियुक्ती पृ० १२१। । ३ अध्यवसाने निमिसे आहारे वेदनायां पराघाते । स्पर्श आना-ऽपानयोः सप्तविध भिद्यत आयुः ॥ २०४१ ॥ ४ आ०नि० शिजए' (श्रीयते) इति पाठः ८४२॥ । Jain Education Internat For Personal and Price Use Only Howw.jaineibraryay
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy