Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 86
________________ विशेषा० 1८८४॥ तुल्लागारदरिसणं सरिसं दव्वस्स लक्खणं तं पि । जह घडतुल्लागारो घडो त्ति तह सव्वमुत्तीसु ॥२१५२॥ यद् यादिवस्तूनां तुल्यस्याकारस्य दर्शनं तदिह 'सरिसं ति' सादृश्यमुच्यते । द्रव्यस्य तदपि लक्षणम् । तेनापि हि 'सहशममुकस्येदम्' इति व्यपदेशहेतुत्वाद् द्रव्यं लक्ष्यत इति, एतदपि सामान्यतो द्रव्यलक्षणमेव, विशेषतस्तु सादृश्यलक्षणमुच्यत इतीह भावार्थः । एवमुत्तरत्रापि सामान्यतो द्रव्यलक्षणता विशेषतस्तु वक्ष्यमाणतत्तविशेषलक्षणता द्रष्टव्येति । उदाहरणमाह- यथैकेन दृश्यमानघटेन तुल्याकारोऽन्योऽपि सर्वो घट इति । एवमनेनैव प्रकारेण सर्वासु मूर्तिषु सर्वेष्वपि मूर्तवस्तुषु यस्य येन सादृश्यं घटते, तत् सर्व सादृश्यलक्षणमिति ।। २१५२ ।। अथ 'सामण्णलक्खण ति सामान्यलक्षणव्याख्यानमाह-- सामण्णमप्पियमणप्पियं च तत्थंतिम जहा सिद्धो। सिद्धस्स होइ तुल्लो सव्वो सामण्णधम्मेहिं ॥२१५३॥ एगसमयाइसिद्धत्तणेण पुणरप्पिओ स तस्सेव । तुल्लो सेसाऽतुल्लो सामण्ण-विसेसधम्मो ति ॥२१५४॥ व्याख्या- इह सामान्य द्विधा- अर्पितमनर्पितं च। तत्रार्पितं विशेषितमुच्यते, अनर्पितं त्वविशिष्टम् । तत्रान्तिममविशिष्टं सामान्यं यथा सिद्धः सर्वोऽप्यन्यस्य सर्वस्यापि सिद्धस्य सत्व-द्रव्यत्व-प्रमेयत्वा-ऽमृर्तत्व-क्षीणकर्मस्वा-ऽनाबाधत्व-सिद्धत्वादिभिः सामान्यधर्मंस्तुल्यः समानो भवति । एक-द्वि-व्यादिसमयसिद्धस्वेन पुनरर्पितो विशेषितः स सिद्धः 'तस्सेव तुल्ल ति तस्यैवैक-द्वि-व्यादिसमानसमयसिद्धस्यैव सिद्धस्य तुल्यः समानः, शेषस्य स्वसमानसमयसिद्धस्यातुल्योऽसमानः । ननु कथमेक एवायं सिद्धः सिद्धान्तरैस्तुल्योऽतुल्यश्च ? इत्याह- सामान्यरूपो विशेषरूपाश्च धर्मा यस्य स सामान्य-विशेषधर्मा इति हेतोः । न ह्यसौ. येरेव धर्मंस्तुल्यस्तैरेवातुल्यो येन विरोधः स्यात् , किन्तु समानधर्मंस्तुल्यो विशेषधर्मैः पुनरतुल्य इति भावः। यचेह सिद्धस्य सिद्धेन सह समानत्वं तत् सामान्यलक्षणमिति ॥ २१५३ ॥ २१५४ ॥ 'आगारे त्ति' आकारलक्षणं व्याचिख्यासुराह ॥८८४॥ , तुल्याकारदर्शनं सरशं व्यस्य लक्षणं तदपि । यथा घटतुल्याकारो घट इति तथा सर्वमूर्तिषु ॥२१५२ ॥ १ सामान्यमर्पितममर्पितं च तत्रान्तिमं यथा सिद्धः । सिद्धस्य भवति तुल्यः सर्वः सामान्यधर्मः ॥ २१५३ ॥ एकसमयादिसिद्धत्वन पुनरपितः स तस्यैव । तुल्यः शेषातुल्यः सामान्य विशेषधर्मेति ॥ २१५४ ॥ Jan E inema For Personal and Price Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202