________________
विशेषा०
1८८४॥
तुल्लागारदरिसणं सरिसं दव्वस्स लक्खणं तं पि । जह घडतुल्लागारो घडो त्ति तह सव्वमुत्तीसु ॥२१५२॥
यद् यादिवस्तूनां तुल्यस्याकारस्य दर्शनं तदिह 'सरिसं ति' सादृश्यमुच्यते । द्रव्यस्य तदपि लक्षणम् । तेनापि हि 'सहशममुकस्येदम्' इति व्यपदेशहेतुत्वाद् द्रव्यं लक्ष्यत इति, एतदपि सामान्यतो द्रव्यलक्षणमेव, विशेषतस्तु सादृश्यलक्षणमुच्यत इतीह भावार्थः । एवमुत्तरत्रापि सामान्यतो द्रव्यलक्षणता विशेषतस्तु वक्ष्यमाणतत्तविशेषलक्षणता द्रष्टव्येति । उदाहरणमाह- यथैकेन दृश्यमानघटेन तुल्याकारोऽन्योऽपि सर्वो घट इति । एवमनेनैव प्रकारेण सर्वासु मूर्तिषु सर्वेष्वपि मूर्तवस्तुषु यस्य येन सादृश्यं घटते, तत् सर्व सादृश्यलक्षणमिति ।। २१५२ ।।
अथ 'सामण्णलक्खण ति सामान्यलक्षणव्याख्यानमाह-- सामण्णमप्पियमणप्पियं च तत्थंतिम जहा सिद्धो। सिद्धस्स होइ तुल्लो सव्वो सामण्णधम्मेहिं ॥२१५३॥
एगसमयाइसिद्धत्तणेण पुणरप्पिओ स तस्सेव । तुल्लो सेसाऽतुल्लो सामण्ण-विसेसधम्मो ति ॥२१५४॥
व्याख्या- इह सामान्य द्विधा- अर्पितमनर्पितं च। तत्रार्पितं विशेषितमुच्यते, अनर्पितं त्वविशिष्टम् । तत्रान्तिममविशिष्टं सामान्यं यथा सिद्धः सर्वोऽप्यन्यस्य सर्वस्यापि सिद्धस्य सत्व-द्रव्यत्व-प्रमेयत्वा-ऽमृर्तत्व-क्षीणकर्मस्वा-ऽनाबाधत्व-सिद्धत्वादिभिः सामान्यधर्मंस्तुल्यः समानो भवति । एक-द्वि-व्यादिसमयसिद्धस्वेन पुनरर्पितो विशेषितः स सिद्धः 'तस्सेव तुल्ल ति तस्यैवैक-द्वि-व्यादिसमानसमयसिद्धस्यैव सिद्धस्य तुल्यः समानः, शेषस्य स्वसमानसमयसिद्धस्यातुल्योऽसमानः । ननु कथमेक एवायं सिद्धः सिद्धान्तरैस्तुल्योऽतुल्यश्च ? इत्याह- सामान्यरूपो विशेषरूपाश्च धर्मा यस्य स सामान्य-विशेषधर्मा इति हेतोः । न ह्यसौ. येरेव धर्मंस्तुल्यस्तैरेवातुल्यो येन विरोधः स्यात् , किन्तु समानधर्मंस्तुल्यो विशेषधर्मैः पुनरतुल्य इति भावः। यचेह सिद्धस्य सिद्धेन सह समानत्वं तत् सामान्यलक्षणमिति ॥ २१५३ ॥ २१५४ ॥
'आगारे त्ति' आकारलक्षणं व्याचिख्यासुराह
॥८८४॥
, तुल्याकारदर्शनं सरशं व्यस्य लक्षणं तदपि । यथा घटतुल्याकारो घट इति तथा सर्वमूर्तिषु ॥२१५२ ॥ १ सामान्यमर्पितममर्पितं च तत्रान्तिमं यथा सिद्धः । सिद्धस्य भवति तुल्यः सर्वः सामान्यधर्मः ॥ २१५३ ॥ एकसमयादिसिद्धत्वन पुनरपितः स तस्यैव । तुल्यः शेषातुल्यः सामान्य विशेषधर्मेति ॥ २१५४ ॥
Jan E
inema
For Personal and Price Use Only