________________
विशेषा
1८८३॥
लक्खणमिह जं नामं जस्स व लक्खिजए व जो जेणं । ठवणागारविसेसो विण्णासो लक्खणाणं वा ॥२१४९॥
इह 'लक्षणम्' इति यल्लकारादिवर्णत्रयावलीमात्रं तद् नामैव लक्षणं नामलक्षणम् । अथवा, 'जस्स व त्ति' यस्य वा कस्यचिज्जीवादेः 'लक्षणम्' इति नाम क्रियते तद् वस्तु नाम्ना हेतुभूतेन लक्षणं नामलक्षणम् । अथवा, नाम-तद्वतोरभेदाद् नाम च तल्लक्षणं च नामलक्षणम् । 'लक्खिज्जए व जो जेणं ति' यो वा स्तम्भ-कुम्भा-ऽम्भोरुहादिः पदार्थों निजेन स्तम्भ-कुम्भादिनाम्ना लक्ष्यते ज्ञायते तत्स्तम्भादि नामलक्षणमुच्यते, लक्ष्यतेऽनेनेति कृत्वा । 'ठवण त्ति' स्थापनालक्षणमुच्यते । किं तत् ? इत्याह- लक्षणरूपस्य वर्णत्रयस्याकारविशेषः । अथवा, लक्षणानां स्वस्तिक-शङ्क-चक्र-ध्वजादीनां यो मङ्गलपट्टादायक्षतादिभिन्यासो विरचना विधीयते तत् स्थापनालक्षणमिति ॥ २१४९॥ .
'दविए त्ति' द्रव्यलक्षणम् । तच्चागम-नोआगम-ज्ञशरीर-भव्यशरीररूपं सुगमम् । तद्व्यतिरिक्तं पुनराह
लक्खिज्जइ जं जेणं दव्वं तं तरस लक्खणं तं च । गच्चुवगाराईयं बहुहा धम्मत्थियाईणं ॥२१५०॥
यद् द्रव्यं धर्मास्तिकायादिकं लक्ष्यते येन तत् तस्य द्रव्यस्य लक्षणम् । तच्च गत्युपकारादिकं धर्मास्तिकायादीनां संवन्धि बहुभेदं विज्ञेयमिति ।। २१५१ ॥
अथान्येषां सादृश्य-सामान्यादिलक्षणानां सामान्येन भावार्थमाह
किंचिम्मित्तविसिढे एयं चिय सेसलक्खणविससा। जं दव्वलक्खणं चिय भावो विस दव्वधम्मो त्ति॥२१५२॥
इदमेव च द्रव्यलक्षणं किश्चिन्मात्रविशिष्ट सत् शेषाः सादृश्य-सामान्यादयो नव लक्षणभेदा भवन्ति । कुतः ? इत्याह - यद् यस्मात् स वक्ष्यमाणो भावोऽपि भावलक्षणरूपो द्रव्यधर्मत्वाद् द्रव्यं लक्ष्यतेऽनेनेति कृत्वा द्रव्यलक्षणलेव, आसतां पुनः शेषाः सादृश्य-सामान्यादयो लक्षणभेदा इति ।। २१५१॥
तदेवं सामान्येन सादृश्यादिलक्षणभेदान् व्याख्याय विशेषतोऽपि 'सरिसे त्ति' सादृश्यलक्षणस्वरूपं विवृण्वन्नाह
RSS
1८८३॥
, लक्षणमिद यद्नाम यस्य वा लक्ष्यते वा यो येन । स्थापनाऽऽकारविशेषो विम्यासो लक्षणानां वा ॥ २१४९ ॥ २ प.छ.'न घट-स्तम्भादि। ३५. छ, 'तद् घटादि। ४ लक्ष्यते यद् येन द्रव्यं तत् तस्य लक्षणं तच । गत्युपकारादिकं बहुधा धर्मास्तिकायादीनाम् ॥ २१५० ।।
५ किचिन्माप्रविशिष्टमेतदेव शेषलक्षणविशेषाः । यद् द्रव्यलक्षणमेव भावोऽपि स द्रव्यधर्म इति ॥ २१५१ ॥
For Personal and
ATMarjanabrary.org
Use Only