________________
RESEARCH
विशेषा
॥८८२॥
ANNIESIRESHPANDEEPAGESNRNPPORIRAMPARANPURNIDHIDDENTRA बाराबारामबापरास्नातक कापड
'शास्त्रं चेदं सर्वसत्त्वोपकारि, तथा, पूर्वापराविरोधि, सर्वगुणग्रहणफलं च सर्वमप्येतत् सामायिकाध्ययनम् , अतः प्रमाणमस्माकम्' इत्येवं शास्त्रस्य प्रत्ययत्वमवधार्य तच्छ्रवणे प्रवर्तन्ते शिष्याः। आह-ननु श्रुतस्य शास्त्रस्य प्रथममेव कथं सर्वसत्त्वोपकारकत्वादीन् गुणान् शिष्या जानन्ति ? । सर्वं शास्त्रं ज्ञात्वा जानन्तीति चेत् । तदयुक्तम् , श्रुते शास्त्रे तत्प्रत्ययाध्यवसायस्य निष्फलत्वात् , तमन्त- OH रेणापि तच्छ्रवणस्य प्रवृत्तत्वात् । नैतदेवम् , यतो वर्णिकामात्रहेतोः कियदपि शास्त्रं श्रुत्वा तद्गुणान् विदन्ति शिष्याः, ततः शेषं शृण्वन्ति, आदिवाक्याद् वा समुदायार्थ वा गुर्वादिभ्यः श्रुत्वाऽश्रुतेऽपि शास्त्रे तद्गुणान् ज्ञात्वा तच्छ्रवणे प्रवर्तन्त इत्यदोष इति ॥२१४४॥ __ अथ शिष्याणामात्मप्रत्ययत्वमाहबुज्झामो णं निजमिव विण्णाणं संसयादभावाओ । कम्मक्खओवसमओ य होइ सप्पच्चओ तेसिं ॥२१४५॥
बुध्यामहे- संविज्ञानरूपतया सामायिकाध्ययनमवगच्छामः । किमिव ? इत्याह-निजमिव घटादिविज्ञानमिति । एवंभूतः स्वप्रत्यय आत्मप्रत्ययस्तेषां शिष्याणां भवति । कुतो हेतोः पुनरयं स्वप्रत्ययस्तेषां भवति ? इत्याह- 'संशयाद्यभावात्' संशय-विपर्यया-ऽनध्यवसायाभावत्वेनास्याध्ययनस्य तेषां सिद्धत्वादित्यर्थः । कर्मक्षयोपशमा वा कुतश्चिदेवंभूतः स्वप्रत्ययस्तेषां भवति ॥ इति त्रयोदशगाथार्थः ।।२१४५।। __ अथ लक्षणद्वारमाहनोमं ठवणा दविए सरिसे सामन्नलक्खणा-ऽऽगारे । गइरागइ-नाणत्ती निमित्त उप्पाय-विगई य ॥ २१४६ ॥ वीरियभावे य तहा लक्खणमेयं समासओ भणियं । अहवा वि भावलक्खण चउविहं सद्दहणमाई ॥२१४७॥ सद्दहण जाणणा खलु विरई मसिं च लक्खणं कहए। ते वि निसामिति तहा चउलक्खणसंजुअंचेव ॥२१४८॥ लक्ष्यतेऽनेनेति लक्षणं पदार्थानां स्वरूपं, तच्च नामादिभेदाद् द्वादशधा ॥ २१४६ ॥ २१४७ ।। २१४८ ॥ अत्र नाम-स्थापनालक्षणे व्याचिख्यासुराह भाष्यकार:
१ जुध्यामहे निजमिव विज्ञानं संशयाद्यभावात् । कर्मक्षयोपशमतश्च भवति स्वप्रत्ययस्तेषाम् ॥ २१४५ ॥ २ नाम स्थापना द्रव्ये सहशे सामान्यलक्षणा-ऽऽकारौ । गत्यागति-नानात्वे निमित्तमुत्पाद-विगती च ॥ २१४६ ॥
||८८२॥ वीर्यभावे च तथा लक्षणमेतत् समासतो भणितम् । अथवाऽपि भावलक्षणं चतुर्विधं श्रद्धानादि ॥ २१ ॥ श्रद्धानं ज्ञानज्ञा खलु विरतिर्मिनं च लक्षणं कथयति । तेऽपि निशमयन्ति तथा चतुर्लक्षणसंयुतमेव ॥ २१४८॥
फाससमकककककर
Jan Education inte
For Personal and Price Use Only