SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८८१ ॥ Jain Education Internati अथवा, अन्यथा 'त्रयः प्रत्ययों भवन्ति' इत्याह सत्थं तिचया वादिमो च्चिय जिणस्स । सपच्चक्खत्तणओ सीसाण उ तिप्पयारो वि॥ २१४१ ॥ बृहद्वृत्तिः । 'वा' इत्यथवा, आत्मा गुरवः शास्त्रमित्येवं त्रयः प्रत्ययाः । तत्रादिम आय एवात्मलक्षणः प्रत्ययो जिनस्य, केवलित्वेन स्वमत्यक्षत्वाद, आत्मावष्टम्भेनैव जिनः सामायिकं कथयतीत्यर्थः । शिष्याणां तु गणधर तच्छिष्य-प्रशिष्यादीनामात्म-गुरु-शास्त्रलक्षणत्रिप्रकाsपि प्रत्ययो विज्ञेय इति ।। २१४१ ।। तत्र सर्वोsपि प्रेक्षावान् 'युक्तमिदम्' इत्यात्मना ज्ञात्वैव प्रायः सामायिकप्ररूपण-श्रवणादिकार्ये प्रवर्तत इत्यात्मप्रत्ययत्वं शिष्येष्वप्यस्तीति पश्चाद् वक्ष्यति । अतो यथा गुरुप्रत्ययस्तथा दिदर्शयिषुर्गणधरापेक्षं तावदाह ऐस गुरू सव्वण्णू पच्चक्खं सव्वसंसयच्छेया । भय-राग- दोसरहिओ लिंगाभावओ जं च ॥२१४२ ॥ अणुवक पराणुग्गहपरो पमाणं च जं तिहुयणस्स । सामाइयउवएसे तम्हा सयवयणोति ॥ २१४३॥ गणधराणां तीर्थकरो गुरुः । ततस्ते तत्प्रत्ययत्वेन सामायिकं शृण्वन्ति । किं विचिन्त्य ते तस्य प्रत्ययत्वमुपकल्पयन्ति ? इत्याह- एषोऽस्माकं गुरुः सर्वज्ञः प्रत्यक्षमनुभवसिद्धः सर्वसंशयच्छेदात् । अपरं च भय-राग-द्वेषरहितोऽयम्, शस्त्रपरिग्रहाऽङ्गनासंनिधान- वदन कार्यादितल्लिङ्गाभावात् । ततः सर्वज्ञत्वात् भय-रागादिदोषरहितत्वाच्च नायमनृतं कदाचिदपि भाषते, अतः सामायिकोपदेशे श्रद्धेयवचन इति संबन्धः । तथा, अनुपकृत आत्मोपकारे निरपेक्ष एव परानुग्रहपरः प्रमाणं च सकलत्रिभुवनस्य यस्मात् ततः सामायिकोपदेशेऽस्माकं श्रद्धेयवचनः । एवं जम्बू प्रभवादीनामपि शिष्य-प्रशिष्याणां निजनिजगुरुषु संभवद्गुणोद्भावनपूर्वकं सामायिक श्रवणप्रत्ययत्वं भावनीयम् ।। २१४२ ।। २१४३ ।। शास्त्रस्य कथं ते प्रत्ययत्वमवगम्य प्रवर्तन्ते १ इत्याह सैत्थं च सव्वसत्तोवगारि पुव्वावराविरोहीदं । सव्वगुणादाणफलं सव्वं सामाइयज्झयणं ॥ २१४४ ॥ १११ १ आत्मा गुरवः शास्त्रमिति प्रत्यया वाऽऽदिम एव जिनस्य । स्वप्रत्यक्षत्वतः शिष्याणां तु त्रिप्रकारोऽपि ॥ २१४१ ॥ २ एष गुरुः सर्वज्ञः प्रत्यक्षं सर्वसंशयच्छेदात् । भय-राग-द्वेषरहितस्तलिङ्गाभावतो यच ॥ २१४२ ॥ अनुपकृतपरानुग्रहपरः प्रमाणं च यत् त्रिभुवनस्य । सामायिकोपदेशे तस्मात् श्रद्धेयवचन इति ॥ २१४३ ॥ ३ शास्त्रं च सर्वसत्वोपकारि पूर्वापराविरोधीदम् । सर्वगुणादानफलं सर्व सामायिकाध्ययनम् ॥ २१४४ ॥ For Personal and Private Use Only ॥८८१॥ ww.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy