________________
विशेषा०
॥८८० ॥
Jain Educationa Internatio
सुयमिह सामइयं चिय पच्चइयं तं जओ य तव्वयणं । पच्चक्खनाणिणो चिय पच्चायणमेत्तवावारं ||२१३९ ॥
ननु श्रुतं श्रुतज्ञानं यत् त्वया गणधरादिसम्बद्धं प्रत्ययत्वेन गीयते, तदिह श्रुतसामायिकमेव, सामायिकहेतुत्वात्, न पुनरन्यत् किञ्चित् । तच्च प्रत्ययिकं प्रतीयतेऽर्थो यस्मादसौ प्रत्ययोऽवध्यादिज्ञानत्रयलक्षणः स प्रत्यायकत्वेन यस्यास्तीति प्रत्ययिकं सर्वाभिलाप्यार्थगोचरं सर्वद्रव्यासर्व पर्यायविषयं श्रुतज्ञानमित्यादिरूपेण केवलादिज्ञानत्रयप्रत्याय्यं, न तु केवलादिज्ञानत्रयवत् स्वयमेव तत्प्रत्यय इत्यर्थः, ततः कथमत्र भावप्रत्ययत्वेन तदधिक्रियते ? । अथ वचनरूपं द्रव्यश्रुतं त्वया प्रत्ययोऽभिधीयते । तदप्ययुक्तम् । कुतः ? इत्याह- 'जंतओ य तव्वयणमित्यादि यतश्च तस्य प्रत्यक्षज्ञानिनो व्याख्याविधिप्रवृत्तस्य वचनं तद्वचनम् । कथंभूतम् ? इत्याहप्रत्यक्षज्ञानिन एवं प्रत्यायनमात्रमेव परावबोधनमात्रमेव व्यापारो यस्य तत् प्रत्यायनमात्रव्यापारम् । अतः केवलिप्रयुक्तत्वेन श्रद्धीयमानस्वात् तदपि प्रत्ययः, न तु केवलादिवत् स्वयमेवेति ।। २१३९ ।।
यद्येवम्, तर्हि किमिह स्थितम् - किं श्रुतं सर्वथैव प्रत्ययत्वेन नेहाधिकर्तव्यम् : इत्याह
ओहाइपचओ त्तिय भणिए तो तं पि पञ्च्चओऽभिहियं । ओहाइतिगं च कहं तदभावे पच्चओ होज्जा ? ॥ २१४० ॥
ततस्तदपि श्रुतं प्रत्ययोऽभिहितं प्रत्ययत्वेनाऽत्राधिकृतं भवति । किं साक्षात् ? । नैवम्, सामर्थ्यात् । कथम् ? इत्याशङ्कयाह- 'अबध्यादिस्त्रिविधोऽत्र प्रत्ययोऽधिक्रियते' इति भणितेऽर्थापत्तेः श्रुतमपि प्रत्ययो गम्यते । किं पुनस्तदन्तरेण नोपपद्यते ? इत्याह- अन्यथा तदभावे श्रुताभावेऽवध्यादि ज्ञानत्रयमपि कथं प्रत्ययो भवेत् ? । इदमुक्तं भवति- 'अवध्यादित्रयं प्रत्ययः' इति द्रव्यश्रुतेनैव परस्य प्रत्याय्यते, तदभावे त्ववध्यादीनि मूकत्वादात्मनः प्रत्ययत्वं परस्य प्रतिपादयितुं न शक्नुयुः, न चाप्रतिपादितं तत्प्रत्ययत्वं सिध्येत्, द्रव्यश्रुतमपि चोपचारात् श्रुतज्ञानेऽन्तर्भवति अतोऽवध्यादिप्रत्ययत्वसाधकत्वात् श्रुतस्यापीह प्रत्ययत्वमवगन्तव्यम् उक्तं च-
“सुयनाणे उनिउत्तं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥ १ ॥” इति । तदेवमवध्यादयस्त्रयः प्रत्ययाः साक्षादुक्ताः श्रुतप्रत्ययस्तु सामर्थ्यादभिहितः ॥ २१४० ॥
१ श्रुतमिह सामायिकमेव प्रत्ययिकं तद् यतश्च तद्वचनम् । प्रत्यक्षज्ञानिन एवं प्रत्यायनमात्रव्यापारम् ॥ २१३९ ॥
२ अवध्यादिप्रत्यय इति च भणिते ततस्तदपि प्रत्ययोऽभिहितम् । अवध्यादित्रिकं च कथं तदभावे प्रत्ययो भवेत् १ ॥ २१४० ॥ ३ श्रुतज्ञाने तु नियुक्तं केवले. तदनन्तरम् । आत्मनश्च परेषां च यस्मात् तत् परिभावकम् ॥ १ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
||८८०||
ww.jainelibrary.org