________________
विशेषा०
बृहद्वृत्तिः ।
॥८७९||
ननु यद्येवम् , तर्हि जीवपर्यायत्वादमृतत्वेन सामायिक केवलज्ञानस्यैव विषयः । अतस्तदेवैकं भावप्रत्ययो युक्तम् , न त्ववधिमनःपर्यायज्ञाने, तयोः पुद्गलमात्रविषयत्वात्- रूपिद्रव्यविषयत्वादित्यर्थः । सामायिकमपि पौगलिक भविष्यति, न, इत्याह- यद् यस्माचारूपताऽमूर्तता सामायिकस्य, जीवपर्यायवादित्युक्तमेवेति ॥ २१३६॥
सूरिराह
'जं लेसापरिणामो पायं सामाइयं भवत्थस्स । तप्पच्चक्खत्तणओ तेसिं तो तं पि पञ्चक्खं ॥ २१३७ ॥
यद् यस्माद् भवस्थस्य जन्तोः संबन्धि प्रायो द्रव्यलेश्याजनित एव परिणामोऽध्यवसायः सामायिकम् । सिद्धस्यालेश्यापरिणामोऽपि सम्यक्त्वसामायिकं भवति, अतस्तद्वयवच्छेदार्थ भवस्थग्रहणम् । भवस्थस्याप्ययोगिकेवलिनोऽलेश्यापरिणामरूपे अपि सम्यक्त्वचारित्रसामायिके भवतः, ततस्तन्निरासार्थ प्रायोग्रहणम् , यस्मात् प्रायो द्रव्यलेश्याजनित एव परिणामो भवस्थस्य सामायिकम् । 'तो तं पञ्चक्खं ति' ततस्तदपि सामायिक प्रत्यक्षम् । केषाम् ? इत्याह-'तेसिं ति' तेषामवधि-मनःपर्याय ज्ञानिनाम् । कुतः ? इत्याह-'तप्पच्चक्खत्तणउ ति तासां द्रव्यलेश्यानां प्रत्यक्षत्वं तत्पत्यक्षत्वं तस्मात् तत्प्रत्यक्षत्वात् । इदमुक्तं भवति- अवधि-मनःपर्यायज्ञानिनोऽपि सामायिकपरिणामजनकानि लेश्याद्रव्याणि साक्षात् पश्यान्त । ततस्तद्वारेण तजनितपरिणामरूपं सामायिकमपि तेषां प्रत्यक्षमुच्यते । मति-श्रुते तु साक्षाद् न किञ्चित् पश्यत इत्येतावता भेदेन तयोर्भावप्रत्यक्षत्वं नोक्तमिति ॥ २१३७ ॥
एवमप्यन्यदनिष्टमापादयन्नाह परःओहाइपच्चयं चिय जइ तं न सुयं पि पच्चओ पत्तो । पञ्चक्खनाणिवजस्स तेण. वयणं न सद्धेयं ॥२१३८॥
ननु याक्तन्यायेनावध्यादिज्ञानत्रयपत्ययमेव सामायिकम् , ततः श्रुतज्ञानमपि हन्त ! न प्रत्ययः प्राप्तः । मा मापत् , किं नः सूयते ? इति चेत् । उच्यते- तेन ततः प्रत्यक्षमवधि-मनःपर्यय-केवलरूपं ज्ञानं येषां ते प्रत्यक्षज्ञानिनस्तद्वर्जस्य तान् वर्जयित्वाऽन्यस्य कस्यापि वचनं न श्रद्धेयं प्रामोति । न चैतदस्ति, चतुर्दशपूर्वधरादिवचनस्य प्रमाणत्वेनोक्तत्वादिति ॥ २१३८ ।
अत्रोत्तरमाह
॥८७९॥
यलेश्यापरिणामः प्रायः सामायिक भवस्थस्य । तत्प्रत्यक्षस्वतस्तेषां ततस्तदपि प्रत्यक्षम् ॥ २१३७ ॥ २ अवध्यादिप्रत्ययमेव यदि तद्न श्रुतमपि प्रत्ययः प्राप्तः । प्रत्यक्षज्ञानिवर्जस्य तेन वचनं न श्रदेयम् ॥ २१३८ ॥
Jan Ed
a
Internatio
For Personal and Price Use Only
ansbrary.org