________________
विशेषा. ॥८७८॥
प्रत्याय्यपुरुषलक्षणस्य प्रत्ययः प्रतीतिव्यप्रत्ययः, तथा, द्रव्यात् तप्तमाषकादेः, द्रव्येण वा घटादिना प्रत्ययो व्यप्रत्ययो ज्ञेयः। यस्तु बाह्यद्रव्याद् बाह्यद्रव्येण वा न क्रियते, किन्तु तद्विपरीतस्तनिरपेक्ष एव साक्षादुपलम्भाद् भवति स भावरूपः प्रत्ययो भावप्रत्ययः। स चावधि-मनःपर्याय-केवलज्ञानभेदात् त्रिविध इति । अनेनैव च भावप्रत्ययेनेहाधिकारः ।। २१३३ ॥
तथा चाह
'केवलनाणितणओ अप्प च्चिय पच्चओ जिणिदस्स । तप्पच्चक्खत्तणओ तत्तो च्चिय गोयमाईणं ॥२१३४॥
जिनेन्द्रस्य तीर्थकरस्य केवलज्ञानित्वात् सामायिकार्थ साक्षादुपलभ्य कथयत आत्मैव प्रत्ययो नान्यः, केवलज्ञानात्मना भावप्रत्ययावष्टम्भेनैव तस्य सामायिकप्ररूपणादिति । गौतमादीनामपि श्रोतृणां तत एव केवलज्ञानलक्षणाद् भावप्रत्ययात् 'सामायिकश्रवणम्' इति गम्यते । कुतः? इत्याह- तस्य केवलज्ञानिनः प्रत्यक्षत्वं तत्प्रत्यक्षवं तस्मात् । इदमुक्तं भवति- सर्वसंशयपरिच्छेदादिना 'केवलज्ञान्यसौ' इत्यनुभवप्रत्यक्षद्वारेणैव गौतमादयोऽवगच्छन्त्येव । ततस्तेषामपि वस्तुतः केवलज्ञानलक्षणभावप्रत्ययादेव सामायिकश्रवणं प्रवर्तत इति ॥ २१३४ ॥
आह-ननु कथमवध्यादिरेव त्रिविधो भावप्रत्ययः, यावता मति-श्रुते अपि प्रत्यायनफलत्वात् कथं न भावप्रत्ययः ? इत्याह
जेणाइंदियमिटुं सामइयं तोऽवहाइविसयं तं । न उ मइ-सुयपच्चक्खं जं ताइं परोक्खविसयाइं ॥२१३५॥
येन यस्मात् कारणाजीवपर्यायत्वात् , जीवस्य चामूर्तत्वादतीन्द्रियमिन्द्रियविषयो न भवति सामायिकम् , इतीष्टं तत्त्ववेदिनाम् , तस्मादवध्यादिज्ञानानामेव तद्विषयः । मति-श्रुतप्रत्यक्षं तु तद् न भवति, यद् यस्मात् ते मति-श्रुते परोक्षार्थविषये, इन्द्रियद्वारेणैवोत्पत्तेरिति ॥ २१३५॥
अत्र प्रेरकः प्राहजुत्तमिह केबलं चेत्र पच्चओ नोहि-माणसं नाणं । पोग्गलमेत्तविसयओ सामाइयारूवया जं च ॥२१३६॥ केवलज्ञानिवत आत्मैव प्रत्ययो जिनेन्द्रस्य । तत्प्रत्यक्षत्वतस्तत एव गौतमादीनाम् ॥ २१३४ ॥
F २ येनातीन्द्रियमिष्टं सामायिकं ततोऽवध्यादिविषयं तत् । न तु मति श्रुतप्रत्यक्षं यत् ते परोक्षविषये ॥ २१३५॥ 1 युक्तमिद केवलमेव प्रत्ययो नावधि-मानसे ज्ञाने । पुद्गलमात्रविषयतः सामाविकारूपता बच ।। २१३५॥
८७८॥
For Personal and
Use Only
Tww.jainabrary.org