________________
विशेषा०
॥८७७।।
Jain Education Internas
अथ प्रत्ययद्वारमाह
पेच्चयनिक्खेवो खलु दव्वम्मी तत्तमासगाईओ । भावम्मि ओहिमाई तिविहो पगयं तु भावेणं ॥ २१३१ ॥ केवलनाणित्ति अहं अरिहा सामाइयं परिकहेइ । तेसिं पि पच्चओ खलु सव्वण्णू तो निसामिति ॥ २१३२ ॥
प्रत्याययतीति प्रत्ययः, प्रत्ययनं वा प्रत्ययस्तन्निक्षेपस्तन्न्यासः । खलुशब्दस्यापिशब्दार्थत्वात् सोऽपि तनिक्षेपः कारणनिक्षेपवद् नाम स्थापनादिभेदाच्चतुर्विधः । तत्र नाम-स्थापने प्रतीते । द्रव्ये द्रव्यविषयः प्रत्ययो ज्ञशरीर भव्य शरीररूपः सुगमः । तद्यति| रिक्तस्तु तप्तमाषकादिः, आदिशब्देन घटतन्दुलचर्वणादिदिव्यपरिग्रहः । द्रव्यं च तत् प्रत्याय्य प्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययस्तप्तमाषकादिरेव, तज्जो वा प्रत्याय्य पुरुषगतप्रत्ययः । 'भावम्मित्ति' भावे भावप्रत्यये विचार्येऽवध्यादिस्त्रिविधो भावप्रत्ययः । अवधि-मनःपर्याय - केवलज्ञानत्रयलक्षणो बाह्यलिङ्गानपेक्ष एव प्रत्याययति, अतस्तात्त्विकप्रत्ययत्वाद् भावप्रत्ययस्त्रिविध इत्यर्थः । मति श्रुते तु बाह्यलिङ्गं करणमपेक्ष्य प्रत्याययतः, न साक्षात्, अतः किलात्र न विवक्षिते । प्रकृतं प्रस्तुतोपयोगस्तु सामायिकमङ्गीकृत्य भावेन भावप्रत्ययेनेति । अत एव 'केवलज्ञान्यहम्' इति स्वकीयादेव केवललक्षणाद् भावप्रत्ययादर्द्दन् साक्षादेव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, तेषामपि श्रोतॄणां गणधरादीनां हृताशेष संशय परिच्छिया 'सर्वज्ञः' इति प्रत्ययो बोधनिश्चयो भवति । ततो यस्मात् सर्वज्ञप्रत्ययात् निशमयन्ति शृण्वन्ति सामायिकम्, अत एव यत् कैश्चिदुच्यते
“सर्वज्ञोऽसाविति चेतत् तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १ ॥"
इत्यादि, तद् व्युदस्तं भवति, अन्यथा 'चतुर्वेदोऽयम्' इत्यादि लोकव्यवहारानुपपत्तेः । इति नियुक्तिगाथाद्वयार्थः ॥ २१३१॥२१३२ ॥
अथ भाष्यम् –
देव्वस दव्वओ वा दव्त्रेण व दव्वपच्चओ नेओ । तव्विवरीओ भावे सो वि हु नाणाइओ तिविहो ॥ २१३३!
१ प्रत्ययनिक्षेपः खलु द्रव्ये तप्तमाषकादिकः । भावेऽवध्यादिस्त्रिविधः प्रकृतं तु भावेन ॥ २१३१ ॥
केवलज्ञानीत्यहमर्हन् सामायिकं परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञस्ततो निशमयन्ति ।। २१३२ ।।
९ द्रव्यस्य व्यतो वा द्रव्येण वा द्रव्यप्रत्ययो ज्ञेयः । तद्विपरीतो भावे सोऽपि खलु ज्ञानादिकस्त्रिविधः ॥ २१३३ ॥
For Personal and Private Use Only
बृहद्वतिः ।
॥८७७॥
www.jainelibrary.org