________________
विशेषा
11८७६॥
TERSTANDSTB
व्याख्या- गौतमादयो गणधराः किंकारणं किंनिमित्तं किंप्रयोजनं सामायिकं निशमयन्ति शृण्वन्ति ? इत्याह- 'नाणस्स ति' विभक्तिव्यत्ययाचतुर्थीह द्रष्टव्या, साच तादर्थे, ततश्च ज्ञानार्थ ज्ञानायेत्यर्थः, तेषां भगवद्वदनारविन्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावः । तनु ज्ञानं सुन्दर-मङ्गुलभावानां शुभा-ऽशुभपदार्थानामुपलब्धये उपलब्धिनिमित्तं भवति । तस्याश्च शुभा-ऽशुभपदार्थो| पलब्धेः सकाशात् शुभेषु प्रवृत्तिः, इतरेभ्यस्तु निवृत्तिर्भवति । ते च निवृत्ति-प्रवृत्ती 'संजम-तव त्ति' संयम-तपसोः कारणं निपित्तं
भवतः, अशुभनिवृत्तिः संयमकारणम् , शुभप्रवृत्तिस्तु तपःकारणमित्यर्थः । तयोश्च संयम तपसोः पापकर्मणोऽग्रहणं, तथा, कर्मविवेकश्च कर्मनिर्जरारूपो यथासंख्यं कारणं निमित्तं प्रयोजनमिति यावत् । कर्मविवेकस्य च कारणं प्रयोजनमशरीरतैव चेति । अथ विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह- कर्मविवेकः कर्मपृथग्भावोऽशरीरतायाः कारणम् । अशरीरता पुनरनाबाधतायाः कारणं भवति । 'होअणबाहनिमित्तं ति' अनाचाधतानिमित्तमनाबाधताकारणमनाबाधतया हेतुभूतयेत्यर्थः, अवेदनो वेदनारहितो भवति जीवः। अवेदनत्वाचानाकुलोऽविह्वलो भवति । रोगाधनाकुलत्वाच्च नीरुक् समस्तभावरोगरहितो भवति । नीरुक्तया पुनरचलः, अचलतया च तत्रैव मुक्तिक्षेत्रे शाश्वतो नित्यो भवति । शाश्वतभावं चोपगतः सन्नव्यावाधसुखं लभते । इत्थं पारम्पर्येणाव्यावाधमुक्तिसुखनिमित्तं सामायिकश्रवणं सिद्धम् । इति नियुक्तिगाथादशकार्थः ॥ २१२५ ॥ २१२६ ॥ २१२७ ॥ २१२८ ॥
एताश्च गाथाः सुगमत्वात् संक्षेपतो भाष्यकारः किश्चिद् व्याचिख्यासुराह'तित्थयरनामकम्मक्खयस्स कारणमिदं जिणिदस्स । सामाइयाभिहाणं नाणस्स उ गोयमाईणं ॥ २१२९ ॥
तं पि सुभेयरभावोवलद्धिए सा पवित्ति-नियमाणं । एवं नेयं कमसो पुव्वं पुव्वं परनिमित्तं ॥ २१३०॥
इदं सामायिकाभिधानं सामायिकभाषणं जिनेन्द्रस्य तीर्थकरस्य भगवतस्तीर्थकरनामकर्मक्षयस्य कारणं हेतुः । गौतमादीनां पुनर्ज्ञानस्य 'तच्छ्रवणं कारणम्' इति गम्यते । तदपि ज्ञानं शुभा-ऽशुभभावोपलब्धेः कारणम् , एषापि प्रवृत्ति-नियमयोः प्रवृत्ति-निवृत्त्योः कारणम् । एवं क्रमशः क्रमेण पूर्व परस्योत्तरस्य निमित्तं तावज्ज्ञेयं यावत् शाश्वतत्वादव्याबा, मुक्तिसुखं लभते । इति गाथाद्वयार्थः । उक्तं कारणद्वारम् ॥ २१२९ ।। २१३०॥
८७६।।
प. छ. 'लम्भाय नि'। २ तीर्थकरनामकर्मक्षयस्य कारणमिदं जिनेन्द्रस्य । सामायिकाभिधानं ज्ञानस्य तु गीतमादीनाम् ॥ २१२९॥
तदपि शुभे-तरभावीपलब्धः सा प्रवृत्ति-नियमयोः । एवं ज्ञेयं क्रमशः पूर्व पूर्व परनिमित्तम् ॥ २१ ॥
Taaree
Jan Educationainter
For Personal and
Use Only