SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विशेषा. बाहिरचिट्ठागारो लक्खिजए तेण माणसाकृतं । आहारादिच्छा हत्थ-वयण-नेत्ताइसण्णाहिं ॥ २१५५ ॥ आक्रियत आकल्प्यते ज्ञायतेऽभिप्रेतं मनोविकल्पितं वस्त्वनेनेत्याकारो बाह्यचेष्टारूपः । तेन च मानसमाकूतमभिप्रेतं वस्तु लक्ष्यत इति लक्षणमसावुच्यते; तथाहि- राजादीनामाहारादीच्छा इस्त-वदन-नेत्रादिसंज्ञाभिर्लक्ष्यत एव विचक्षणः, उक्तं च ___"आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्र-वक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ १॥" इदि. ११५५ ॥ अथ पाइरागइ त्ति' गत्यागतिलक्षणस्वरूपं प्रचिकटयिषुराहअवरोप्परं पयाणं विसेसणविसेसणिज्जया जत्थ । गच्चागई य दोण्हं गच्चागइलक्खणं तं तु ॥ २१५६ ॥ परस्परं द्वयोर्द्वयोः पदयोर्यत्र विशेषण-विशेष्यतयाऽऽनुकूल्येन गमनं गतिः। यथा 'जीवो भदन्त ! देवः' इति जीवमनूध देवत्वं पृच्छ्यते । अत्र जीवपदादू देवपदे आनुकूल्येन यथास्थित्या गतिः । तथा, प्रत्यावृया पातिकूल्येनागमनमागतिर्यथा 'देवो जीवः' इत्यत्र देवमनूय जीवत्वं पृच्छयत इतीह प्रत्याच्या देवपदाज्जीवपदे आगतिः। गतिधागतिश्च गत्यागती ताभ्यां ते वा लक्षणं तदेतद् गत्यागतिलक्षणम् । एतच चतुर्धा; तद्यथा-पूर्वपदव्याहतम् , उत्तरपदव्याहतम् , उभयपदव्याहतम् , उभयपदाव्याहतं चेति । तत्र पूर्वपदं व्याहत व्यभिचारि यत्र तत् पूर्वपदव्याहतं लक्षणं पूर्वपदव्यभिचारीत्यर्थः । एवमन्यत्रापि यथायोगं समासः ॥ २१५६ ॥ एतानेव चतुरो भङ्गान् सोदाहरणानाह भाष्यकार:घुव्वा-वरो-भएमुं वाहयमव्वाहयं च तं तत्थ । जीवो देवो देवो जीवो त्ति विगप्पनियमोऽयं ॥ २१५७ ॥" इह पूर्वपदव्याहतम् , अपरपदव्याहतम् , उभयपदव्याहतम् , उभयपदाव्याहतं चेति चतुर्धा तद्गत्यागतिलक्षणमुक्तम् । तत्र "जीवे भन्ते । देवे, देवे जीवे ?। गोयमा ! जीवे सिय देवे, सिय नो देवे, देवे पुण नियमा जीवे" इति भुवनगुरुवचनाज्जीवो देव इति विशेषणविशेष्यभूते पदद्वये जीव इति पूर्वपदं देवत्वं व्यभिचरत्यपि, जीवस्य देवस्यादेवस्य च नारकादेर्दर्शनात् । 'देवः किं जीवः' इति बाझचेष्टाऽऽकारी लक्ष्यते तेन मानसाकृतम् । आहारादीच्छा हस्त-वचन-नेवादिसंज्ञाभिः ॥ २१५५॥ १. ग. 'भाषणेन'। परस्परं पदयोर्विशेषण-विशेषणीयता यत्र । गस्यागतिश्च द्योगस्यागतिलक्षणं तत् तु ॥ २१५॥ पूर्वा-उपरो-भयेषु व्याहतमण्याहतं च सत् सन्न । जीबो देवो देवो जीव इति विकल्पनियमोऽयम् ॥ २१५॥ ५ जीवो भगवन् ! देवः, देवो जीवः । गौतम ! जीवः स्याद् देवः, स्थाद् नो देवः, देवः पुननियमाजीवः । ॥८८५॥ For Posol s en
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy