SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८८६|| Jain Education Internatio प्रत्यावृत्तौ देवो जीवत्वं न व्यभिचरत्येव, देवस्य नियमेन जीवत्वात् । तस्मात् पूर्वपदव्याहतो विकल्पनियमोऽयं भङ्गः, विकल्पो व्याहतिभजना व्यभिचार इत्यर्थः, नियमो निश्चयोऽव्यभिचार इत्यर्थः, ततश्च पूर्वपदविकल्पोपलक्षित उत्तरपदनियमो यत्रासौ विकल्पनियमः प्रथमभङ्ग इति ।। २१५७ ।। शेर्ष भङ्गत्रयं सोदाहरणं यथा जीवइ जीवो जीवो जीवइ नियमो मओ विगप्पो य । देवो भव्वो भव्वो देवो त्ति विगप्पमो दो वि ॥ २१५८ ॥ जीवो जीवो जीवो जीवो त्ति दुगे वि गम्मए नियमो । जीवो जहोवओगो तहोवओगो य जीवो त्ति ॥ २१५९ ॥ व्याख्या- 'जीवइ जीवो जीवो जीवइ' इत्यनेन द्वितीयभङ्गप्रतिपादकं भगवती सूत्रं सूचितम् । तच्चेदम् - " जीवइ भंते ! जीवे, जीवे जीवइ ? । गोयमा ! जीवइ तात्र नियमा जीवे, जीवे पुण सिय जीवइ, सिय नो जीवइ' इति । इह 'जीव' शब्देन दशविधमाणलक्षणं जीवनं जीवितव्यमुच्यते । तत्र जीवनं तावद् नियमाज्जीवः, अजीवे तस्य सर्वथाऽसंभवात्; जीवः पुनः स्याज्जीवति स्याद् न जीवति, सिद्धजीवस्य जीवनासंभवात् । अत इहोत्तरपदं व्याहतम्, व्यभिचारात् : पूर्वपदं स्वव्याहतं, जीवनस्य जीवमन्तरेणाभावात् । अत एवाह'नियमो मओ विगप्पो यत्ति' पूर्वपदेऽव्यभिचाराद् नियमो मतः, उत्तरपदे तु विकल्पो भजना व्याहतिर्व्यभिचार इत्यर्थः । ततश्च नियमेनोपलक्षितो विकल्पो यत्रासौ नियमविकल्पनामकोऽयमुत्तरपदव्याहतो द्वितीयो भङ्गः । 'देवो भव्यो भन्नो देवो त्ति' अनेनापि तृतीयभङ्गप्रतिपादकं प्रज्ञप्तिसूत्रं सूचितम् ; तद्यथा- देवे णं भंते भवसिद्धिए, भवसिद्धिए देवे ? । गोयमा ! देवे सिय भवसिद्धिए, सिय |अभव्वसिद्धिए : भवसिद्धिए वि सिय देवे, सिय नो देवे त्ति" । अत्र पूर्वपदवर्ती देवो भव्यत्वं व्यभिचरति, अभव्यस्यापि तस्य संभवात् । उत्तरपदवर्त्यपि भव्यो देवत्वं व्यभिचरति, अदेवस्यापि तस्य नरकादौ संभवात् । अत उभयपदव्याहतमिदम् । अत एवाह - 'विगप्पमो दो वि त्ति' इह प्राकृतशैल्या द्वयोरपि पदयोर्विकल्पो व्यभिचार इत्यर्थः । ततच विकल्पयुक्तो विकल्पो यत्रासौ १ जीवति जीवो जीवो जीवति नियमाद् मतो विकल्पश्च । देवो भव्यो भन्यो देव इति विकल्पो द्वयोरपि ॥ २१५८ ।। जीवो जीवो जीवो जीव इति द्विकेऽपि गम्यते नियमः । जीवो यथोपयोगस्तथोपयोगश्च जीव इति ॥ २१५९ ॥ २ जीवति भगवन् ! जीवः, जीवो जीवति ? गौतम ! जीवति तावद् नियमाज्जीवः, जीवः पुनः स्याज्जीवति, भवसिद्धिकः भवसिद्धिको देवः ? गौतम् ! देवः स्याद् भवसिद्धिकः स्यादभवसिद्धिकः । भवसिद्धिकोऽपि स्याद् देवः स्यात् नो देव इति । For Personal and Private Use Only स्याद् नो जीवति । ३ देवो भगवन् ! | बृहद्वत्तिः । ॥८८६ ॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy