________________
विशेषा०
॥८८७॥
Jain Educationa Internati
विकल्पविकल्पनामकोऽयम्म्रुभयपदव्याहतस्तृतीयो भङ्ग इति । 'जीवो जीवो जीवो जीवो ति' इहापि व्याख्याप्रज्ञप्तिसूत्रमेतद् द्रष्टव्यम् ; तद्यथा - "जीत्रे भंते ! जीवे, जीवे जीवे १ । गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियम वेत्ति" । इह एकस्य जीवशब्दस्योपयोगो वाच्यः । ततश्चोपयोगो नियमाज्जीवः, जीवोsपि नियमादुपयोगः, अत उभयपदाव्याहतमिदम् । अत एवाह'दुगे वि गम्मए नियमो इत्यादि' पदद्वयेऽप्यत्र नियमो गम्यते । ततश्च नियमान्वितो नियमो यत्रासौ नियमनियमाभिधान उभयपदाव्याहतश्चतुर्थो भङ्ग इति ।। २१५८ ।। २१५९ ।
अथ लोकेsपि चतुर्विधमिदं गत्यागतिलक्षणं प्रसिद्धमिति दर्शयन्नाह -
वी घडो ति चूओ दुमो त्ति नीलुप्पलं च लोयम्मि । जीवो सचेयणो त्तिय विगप्पनियमादओ सिद्धा || २१६०||
पूर्वपदव्याहतं यथा 'रूपी घटः' इति । अत्र रूपिणो घटस्य पटादेव भावात् पूर्वपदव्याहतिः, उत्तरपदं तु न व्याहतम्, घटस्य रूपण एव भावादिति विकल्पनियमः प्रथमो भङ्गः । उत्तरपदव्याहतं 'चूतो द्रुमः' इति । इह चूतो द्रुम एव भवतीति न व्याहतिः, मस्तु चूतोऽचूतश्च स्यादित्युत्तरपदव्याहतिरिति नियमविकल्पो द्वितीयो भङ्गः । उभयपदव्याहतं यथा 'नीलोत्पलम्' इति । नीलमुत्पलं मरकतादि च भवति, उत्पलमपि नीलं शुक्लादिरूपं च भवति इत्युभयपदव्यभिचाराद् विकल्पविकल्पस्तृतीयो भङ्गः । उभयपदाव्याहतं यथा 'जीवः सचेतनः' इति । जीवः सचेतन एव भवति, चेतनापि जीवस्यैव, इत्युभयपदाव्यभिचाराद् नियमनियमश्चतुर्थो भङ्ग इति । एवं विकल्पनियमादयश्चत्वारो भङ्गा लोकेऽपि सिद्धा इति । तदेवमभिहितं गत्यागतिलक्षणम् ॥ २१६० ॥
अथ 'नाणत्ति त्ति' नानातालक्षणं विवरीषुराह -
नातित्तिविसेसो सो व्यक्खेत्त-काल-भावेहिं । असमाणाणं णेओ समाणसंखाणमविसेसो || २१६१ ॥ परमाणु - दुयणुयाणं जह नाणत्तं तहावसेसाणं । असमाणाणं तह खेत्त-काल- भावप्पभेयाणं ॥ २१६२ ॥
१ जीवो भगवन् ! जीवः, जीवो जीवः ? गौतम ! जीवस्तावद् नियमाजीवः, जीवोऽपि नियमाजीव इति ।
२ रूपी घट इति चूतो दुम इति नीलोत्पलं च लोके । जीवः सचेतन इति च विकल्प नियमादयः सिद्धाः ॥ २१६० ॥
३ नानातेति विशेषः स द्रव्य क्षेत्र काल-भावैः । असमानानां ज्ञेयः समानसंख्यानामविशेषः || २१६१ ॥ परमाणु-द्वयणुकानां यथा नानात्वं तथाऽवशेषाणाम् । असमानानां तथा क्षेत्र-काल- भावप्रभेदानाम् ॥ २१६२ ॥
For Personal and Private Use Only
बृहद्वृचिः।
||८८७ ।।
ww.jainelibrary.org