________________
विशेषा० ॥८८८॥
नाना इत्येतस्य भावो नानाता वस्तूना परस्परं भिन्नता विशेष इत्यर्थः । स च विशेषो द्रव्य-क्षेत्र-काल-भावैरसमानानामसमानसंख्यानां ज्ञेयोऽवगन्तव्यः, द्रव्यादिभिः समानसंख्यानां पुनरविशेष इति । अत्रोदाहरणमाह- 'परमाण्वित्यादि' यथा द्रव्यसंख्ययाऽसमानानां परमाणूनां व्यणुकस्कन्धानां च, तथाऽवशेषाणां ब्यणुकानां व्यणुकानां च, तथा व्यणुकानां चतुरणुकानां च, तथा, चतुरणुकानां पञ्चाणुकानां चेत्यादिद्रव्यसंख्ययाऽसमानानां परस्परं नानात्वं विशेषो ज्ञेयः । तथा तेनैव प्रकारेण क्षेत्र-काल-भावसंख्ययाऽसमानानां क्षेत्र-काल-भावमभेदानामपि परस्परं नानात्वं विशेषो मन्तव्यः तद्यथा- एकप्रदेशावगाढानां धादिप्रदेशावगाढानां च, तथैकसमयस्थितिकानां यादिसमयस्थितिकानां च तथा, एकगुणकालकादीनां द्विगुणकालकादीनां चेत्यादि । उपलक्षणं चेदम्, द्रव्यतः समानसंख्यानामपि परमाण्वादीनां क्षेत्र-काल-भावैर्नानात्वं द्रष्टव्यम् । एवमेकादिप्रदेशावगाढानां क्षेत्रावगाढप्रदेशैः समानसंख्यानामपि द्रव्य-काल-भावैर्नानात्वम् , एकसमयादिस्थितीनां च स्थितिसमयैः समानसंख्यानामपि द्रव्य-क्षेत्र-भावैर्नानात्वम् ; एकगुणकालकादीनां च वर्ण-गन्धादिगुणैः समानसंख्यानामपि द्रव्य-क्षेत्र-कालैर्नानात्वमिति ॥ २१६१ ॥ २१६२ ॥
अथ 'निमित्त त्ति' निमित्तलक्षणं विवृण्वनाहलेक्खिज्जइ सुभासुभमणेण तो लक्खणं निमित्तं ति । भोमाइ तदट्ठविहं तिकालविसयं जिणाभिहियं ॥२१६४ लक्ष्यते विज्ञायते यस्मात् शुभाशुभमनेन ततो निमित्तमपि लक्षणम् । तच्चाष्टविधमष्टप्रकारम् । उक्तं च___ "भोम-सुमिण-तलिक्खं दिव्वं अंगसरलक्खणं तह य । बंजणमट्ठविहं खलु निमित्तमेवं मुणेयव्वं ॥१॥"
इति । भौमादिस्वरूपं च ग्रन्थान्तरादवसेयम् । इदं चाष्टविधमपि निमित्तं प्रत्येकमतीता-ऽनागत-वर्तमानरूपकालत्रयविषयं जिनैरभिहितमिति ॥ २१६३ ॥
अथ 'उपाय विगई यत्ति' उत्पाद-विगमलक्षणस्वरूपमाहनाणुप्पन्नं लक्खिज्जए जओ वत्थु लक्खणं तेणं । उप्पाओ संभवओ तह चेव विगच्छओ विगमो ॥२१६४॥ लक्ष्यते शुभाशुभमनेन ततो लक्षणं निमित्तमिति । भौमादि तदष्टविध त्रिकालविषयं जिनाभिहितम् ॥ २१६३॥
કરી ૮૮૮ २ भौम स्वामा-ऽन्तरिक्षं दिव्वमङ्गसरलक्षणं तथा च । व्यञ्जनमष्टविध खलु निमित्तमेवं ज्ञातव्यम् ॥ १॥ ३मानुल्पवं व्यते यतो वस्तु लक्षणं तेन । उत्पादः संभवतस्तथैव विगच्छतो विगमः ॥ २१६४॥
ansar
For Personal and
Use Only