SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ यतो नानुत्पत्रं वस्तु लक्ष्यते तेनोत्पादोऽपि तल्लक्षणम् । कथंभूतस्य वस्तुन उत्पादो लक्षणम् ? । संभवत उत्पद्यमानस्य । । विशेषा० तथा, विगच्छतो विना वस्तुनो विगमो विनाशो लक्षणमेवेति ।। २१६४ ॥ बृहद्वृत्तिः । ननु विगमो नाशः कथं वस्तुलक्षणम् ? इत्याह11८८९॥ लक्खिज्जइ जं विगयं विगमेण विणाव जनसंभूई । विगमो विलक्षणमओ विगच्छओ वत्थुणोऽणण्णो ॥२१६५॥ यद् यस्माद् यथोत्पादेनोत्पनं लक्ष्यत एवं विगतमपि विगमेन लक्ष्यत एव, यथा चोत्पादमन्तरेण न वस्तुनः संभूतिः, एवं Ho 'विगमेण' इत्यस्यावृत्त्योत्तरत्रापि संबन्धाद् यस्माद् विगमेनापि विना न वस्तुनः संभूतिः संभवः । न हि मृदः प्राक्तने रूपेऽविनष्टे 'घटस्य संभवोऽस्ति । अतोऽस्मात् कारणाद् विगमोऽपि वस्तुनो लक्षणमेव, तत्संभवहेतुत्वात् , उत्पादवत् । कथंभूतो विगमः ? इत्याहविगच्छतो वस्तुनोऽनन्योऽभिन्नः, यथोत्पन्नादभेदवानुत्पाद इति ॥ २१६५ ।। एतदेव भावयति अङ्गुलिरिजुता निययप्पसूइ-वक्कत्तणासओ समयं । लक्खिजइ नेयरहा तह सब्वे दव्वपज्जाया ॥२१६६॥ अङ्गुल्या ऋजुताऽङ्गुल्जता सा समकं युगपद् निजकप्रमूति-वक्रत्वनाशत एव लक्ष्यते, नेतरथा नान्यथेत्यर्थः । तत्र निजकमसूतिरुत्पाद ऋजुतायाः, वक्रत्वस्य नाशो वक्रत्वनाशः, निजकमसूतिश्च वक्रत्वनाशश्च निजकपमूति-वक्रत्वनाशी, ताभ्यां निजकममूति-वक्रत्वना. शाभ्यामिति समासः । अस्माच्च पश्चमीद्विवचनान्तात् “पञ्चम्यास्तसिल (पा०५,३,७) इति तस्पत्ययः। इदमुक्तं भवति- अङ्गुलीद्रव्यस्य ऋजुतापर्यायो नियमत एव खस्योत्पादेन वक्रत्वस्य च नाशेन लक्ष्यते, नान्यथा, अनुत्पन्नस्य खरविषाणस्येव लक्षणायोगात्, विपक्षभूतपर्यायाविनाशे चोत्पादायोगात् । यथा चाङ्गुल्या ऋजुतापर्यायस्तथाऽन्येऽपि सर्वद्रव्यपर्यायाः स्वस्योत्पादे स्वविपक्षभूतपर्यायविनाश एव च सति लक्ष्यन्ते, नान्यथा । ततश्च यथोत्पादो वस्तुलक्षकत्वाल्लक्षणं तथा विनाशोऽपि, पूर्वपर्यायविनाशमन्तरेणाप्युत्तरपर्यायविशिष्टवस्तुनो लक्षणायोगादिति ॥ २१६६ ॥ अथ विनाशस्य ये सर्वथा वस्तुत्वं नेच्छन्ति सौगताः, तन्मतानुसारी परः पाह, लक्ष्यते यद् विगतं विगमैन विना वा यद् न संभूतिः । विगमोऽपि लक्षणमतो विगच्छतो वस्तुनोऽनन्यः ॥ २१५५॥ R11८८९॥ २ अल्ज ता निजकप्रसूति-वक्रत्वनाशतः समकम् । लक्ष्यते नेतरथा तथा सर्वे द्रव्यपर्यायाः ॥ २५॥ For Personal and Use Only P w.jainesbrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy