________________
विशेषा ||८९०॥
उप्पायरस हि जुत्ता लक्खणया नासओ विणासस्स । नासोवलक्खियं वा वत्थु न भावो खपुप्फ व ॥२१६७॥
ननूत्पादस्य लक्षणता युक्ता, उत्पन्नवस्त्वनन्यत्वेन तस्य सत्त्वात् , विनाशस्य त्वसतोऽविद्यमानस्य नासौ युक्ता । न ह्यसत् खरविषाणं कस्यापि लक्षणं भवितुमर्हति । अथ नाशोऽपि वस्तुनो लक्षणमिष्यते, तर्हि तस्याभावरूपत्वात् तल्लक्षितं वस्त्वप्यभाव एव स्यात् , आकाशकुसुमवदिति । एतदेवाह- 'नासोवलक्खियं वेत्यादि' ॥ २१६७ ॥
अत्रोत्तरमाह. नोसो भावो संभूइहेऊओ वत्थुणो धुवत्तं व । अहव समुप्पाओ इव वत्थुप्पभवाइभावाओ ॥ २१६८ ॥
नाशो भाव इति प्रतिज्ञा, पूर्वोक्तन्यायेन वस्तुनः संभूतिहेतुत्वात् , ध्रुवत्ववदिति । अथवा, हेतु-दृष्टान्तान्यत्वेनान्यथा प्रमाणम्नाशो भाव इति सैव प्रतिज्ञा, वस्तुनः प्रकृष्टं भवनं प्रभवः प्रौढतापर्यायस्तस्यादौ प्रथमं पूर्व भावः सचं तस्माद् वस्तुप्रभवादिभावादिति हेतुः । समुत्पादवदिति दृष्टान्तः । इह यो यो वस्तुनः प्रकृष्टभवनस्यादौ भवति स स भावः, यथोत्पादः, भवति च वस्तुपभवस्यादौ पूर्वोक्तयुक्तितो नाशः, तस्माद् भाव इति ।। २१६८ ।।
यदुक्तम्- 'नासोवलक्खियं वेत्यादि' तत्राह। नासोवलक्खियं चिय तदभावो च्चिय तदन्नहा भावो । आह नणु पत्तमेवं भावाभावोभयसभावं ॥२१६९॥
एवं च सति 'नासोवलक्खियं चिय तदिति' नाशोपलक्षितमेव तत्-निर्दिष्टयुक्तितो नाशेन लक्ष्यत एवैतदित्यर्थः। तथा चैतावताशेनाभाव एव तद् वस्तु, नात्र विवादः, कथश्चिद् वस्तूनामभावरूपताया जैनैरभ्युपगतत्वादिति । 'अन्नहा भावो चि' अन्यथा पुनरन्येन रूपेण तद्वस्तु भाव:- उत्पाद-ध्रौव्यरूपतया भाव एव तदित्यर्थः । अत्राह पर:- नन्वेवं सति भावाभावोभयखभावं वस्तु प्राप्तम् , एतच्चायुक्तम् , भावा-ऽभावयोः परस्परपरिहारेणावस्थानाच्छाया-ऽऽजपवदेकत्रायोगादिति ।। २१६९ ।। अत्रोत्तरमाह--
१ उत्पादस्य हि युक्ता लक्षणता नाऽसतो विनाशस्य । नाशोपलक्षितं वा वस्तु न भावः खपुष्पमिव ॥ २१६७ ॥ २ नाशो भावः संभूतिहेतुतो वस्तुनो ध्रुवत्वमिव । अथवा समुत्पाद इव वस्तुप्रभवादिभावात् ॥ २१६८ ॥ ३ नाशोपलक्षितमेव तदभाव एव बदन्यथा भावः । आह ननु प्राप्तमेवं भावाभावोभवस्वभावम् ॥ २१५९ ॥
| ॥८९०॥
REPORT
Jan Education Internati
For Personal and Price Use Only