Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहदत्तिः ।
॥९०२॥
तस्माद् वस्तूनामेव गवादीनां खुर-ककुद-लाङ्गुल-विषाण-सास्नादिमत्त्व लक्षणो यः सदृशः पर्यायः स एव सामान्यं, न पुनरेक-नित्य-निरवयवा-क्रिय-सर्वगतत्वादिधर्मोपेतं पराभ्युपगतम् । यस्तु तेषामेव गवादीनां शावलेय-धावलेयत्वादिको विसदृशोऽन्योन्य विलक्षणः पर्यायः स विशेषः । स च सामान्यरूपो विशेषरूपश्च पर्यायस्ततो वस्तुनोऽनन्तरमभिन्नः, कथश्चित्तु पररूपतादिभिभिन्नोऽपि, न त्वेकान्तेनाभिन्नो भिन्नो वेति द्रष्टव्यमिति । तदेवमुक्तो नैगमनयः ॥ २२०२ ॥
अथ संग्रहनयं व्याचिख्यासुराहसंगहणं संगिण्हइ संगिज्झंते व तेण जं भेया । तो संगहो त्ति संगहियपिडियत्थं वओ जस्स ॥ २२०३ ॥
संग्रहणं सामान्यरूपतया सर्ववस्तूनामाकोडनं संग्रहः अथवा, सामान्यरूपतया सर्व संग्रहातीति संग्रहः । अथवा, यद् यस्मात् सर्वेऽपि भेदाः सामान्यरूपतया संगृह्यन्तेऽनेनेति संग्रहः । संगृहीतं च तत् पिण्डितं च संगृहीतपिण्डितं तदेवार्थोऽभिधेयं यस्य तत् संगृहीतपिण्डितार्थम् , एवंभूतं वचो वचनं यस्य संग्रहस्येति ॥ २२०३ ।।
तत्र संगृहीतपिण्डितार्थ किमुच्यते ? इत्याहसंगहियमागहीयं संपिडियमेगजाइमाणीयं । संगहियमणुगमो वा वइरेगो पिंडियं भणियं ॥ २२०४ ॥ अहव महासामन्नं संगयिपिडियत्थमियरं ति । सव्वविसेसानन्नं सामन्नं सव्वहा भाणियं ॥ २२०५ ॥
व्याख्या- सामान्याभिमुखेनाऽऽग्रहणमागृहीतं संगृहीतमुच्यते, पिण्डितं त्वेकजातिमानीतमभिधीयते, तदेवंभूतं वस्त्वर्थोऽभिधेयं यस्य तत् संगृहीतपिण्डितार्थ 'वचनं संग्रहनयस्य' इति स्वयमेव द्रष्टव्यम् । अथवा, संगृहीतमनुगमोऽभिधीयते, सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमित्यर्थः । व्यतिरेकस्तु पिण्डितमुच्यते, विशेषप्रतिपादकपरमतनिराकरणमित्यर्थः । ततश्च संगृहीतपिण्डितार्थमनुगम-व्यतिरेकार्थ संग्रहवचनमिति दृश्यम् । अथवा, सत्ताख्यं महासामान्यं संगृहीतमुच्यते, इतरत्तु गोत्वादिकमवान्तरसामान्य पिण्डितार्थमभिधीयते । ततः संगृहीतपिण्डितार्थ परा-ऽपरसामान्यार्थ संग्रहवचः। किंबहुनोक्तेन ? सर्वे विशेषा अनन्या अभिन्ना यस्य तत्
१ संग्रहणं संगृह्णाति संगृह्यन्ते वा तेन यद् भेदाः । ततः संग्रह इति संगृहीतपिण्डिता) वचो यस्य ।। २२०३ ।। २ संगृहीतमागृहीतं संपिण्डितमेकजातिमानीतम् । संगृहीतमनुगमो वा व्यतिरेकः पिण्डितं भणितम् ।। २२०४ ॥ अथवा महासामान्य संगृहीतपिण्डितार्थमितरदिति । सर्वविशेषानन्य सामाग्यं सर्वथा भणितम् ॥ २२.५ ॥
॥९०२॥
Jan Education Inter
For Personal and Price Use Only
NEKTww.jainelibrary.org
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202