Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
।
विशेषा.
बृहद्वत्तिः ।
।।८९१॥
एवं चिय तं वत्थु सव्वाभावे व तंखपुष्पं व । भावे व सब्बहा सव्वसंकरे-गत्त-णिच्चाई ॥ २१७० ॥
नन्वेवमेव भावाभावोभयरूपतायामेव तद् वस्तु भवति, न पुनरेकान्तेन भावस्वरूपत्वेऽभावस्वरूपत्वे वा । एतदेवाहसर्वाभावे वा सर्वथैवाभावरूपतायां वेष्यमाणायां खपुष्पमिव तद् वस्तु स्यात् । भावे वा सर्वथा भावरूपतायां वैकान्तेनेष्यमाणायां सर्वसंकरै-कत्व-नित्यत्वादयो दोषाः प्रसजन्ति; तथाहि- 'सर्वथा सर्वैरपि प्रकारैर्घटस्य भावः' इत्युक्ते यथा घटरूपतया तथा पटस्तम्भ-भू-भूधरादित्रैलोक्यरूपतयापि तस्य भावः प्रामोति, कथश्चिदप्यभावरूपतानभ्युपगमात् । एवं स्तम्भ-भू-भूधरादीनामपि सर्वात्मना भावात् सर्वसंकरोऽन्योन्यानुप्रवेशलक्षणः स्यात् । एकस्मिन् वा कस्मिंश्चिद् घटादिवस्तुनि सर्वस्यापि त्रिभुवनस्यानुप्रवेशात सबैकत्वं भवेत् । ततश्चैकस्मिन्नपि व्योमादिवस्तुनि सर्वदेवावतिष्ठमाने शेषस्यापि घटादिवस्तुजातस्य तदेकत्वापच्या सर्वदाऽवस्थानात् सर्वनित्यत्वप्रसङ्गः । आदिशब्दादेकस्मिन् घटादिवस्तुनि विनष्टे शेषस्यापि भू-भूधरादेस्तदेकत्वेन विनाशात् सर्वशून्यतापत्तिः, सर्वस्यापि च सर्वत्र विद्यमानत्वात् सर्वार्थेषु निराकाङ्क्षमेव विश्वं स्यादिति । तस्मात् केवले भावरूपत्वेऽभावरूपत्वे वेष्यमाणे दोषदर्शनाद् भावाभावोभयरूपं वस्तु । न चैवं विरोधः, भावा-ऽभावयोर्भिन्ननिमित्तत्वात् । यदि हि येनैव भावस्तेनैव चाभावः स्यात् तदा भवेद् विरोधः । न चैतदस्ति, स्वरूपेण घटादेर्भावात् , पररूपेण चाभावादिति ।। २१७०॥
ननु यद्येवम् , तर्युत्पन्नमप्यनुत्पन्नम् , तस्याभावरूपत्वात् । अनुत्पन्नमभावीभूतं चास्ति, अभावरूपतया सत्चात् । तथा च सति 'उत्पन्नम् , विनष्टं वेदम्' इत्यादिलोकव्यवहारो न पामोति, इत्याशङ्क्याह--- ___ उप्पन्नं विगयं वाऽणप्पियमविसेसियं सधम्मेहिं । तं चिय पज्जायंतरविसेसियमहप्पियं नाम ॥ २१७१ ॥
इहोत्पन्न विगतं वेति यल्लोके व्यपदिश्यते वस्तु, तत् सर्वमपि द्विविधम् - अर्पितम् , अनर्पितं च । तत्र स्वधर्मः विशेषवद्भिः, पर्यायैरविशेषितं सामान्यरूपं वस्त्वनर्पितमभिधीयते । तदेव च पर्यायान्तरैः पर्यायविशेषैविशेषितमर्पितमुच्यत इति । एवं व्यवस्थिते यदा सामान्यरूपमनपेक्ष्योत्पाद-विगमादिपर्यायेण केनापि विशेषितं वस्तु वक्तुमिष्यते तदोत्पन्नं विगतं चेत्यादि व्यपदेशतः सर्वोऽपि
। एवमेव तद् वस्तु सर्वाभावे वा तत् खपुष्पमिव । भावे वा सर्वथा सर्वसकर-काय-नित्यत्वानि ॥ २१७ ॥ २. उत्पनं विगतं वाऽनर्पितमविशेषितं स्वधर्मः । तदेव पर्यायान्तरविशेषितमधार्पितं नाम ॥ २१७१ ॥
PASCORE
RWA
S
८९१॥
ATTA
Jan Educationa Intement
For Personal and
Use Only
Loading... Page Navigation 1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202