Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 75
________________ विशेषा० ॥८७३ ॥ Jain Education Internati म्भविपर्ययो भवेत्, घटकारण संनिधानेऽप्यन्यत् किमपि शरावादिकार्ये भवेत्, अभावो वा भवेत् न किञ्चित् कार्ये भवेदित्यर्थः । तस्माद् बुद्ध्यध्यवसितं कार्यमध्यात्मनः कारणमेष्टव्यम् । किं बहुना ?, यथा यथा युक्तितो घटते तथा तथा सुधिया कर्मणः कारणत्वं वाच्यम्, अन्यथा कर्मणोऽकारकत्वे 'करोतीति कारकम्' इति षण्णां कारकत्वानुपपत्तिरेव स्यादिति । 'भूपिंडेत्यादि' भूरपादानम्, पिण्डापायेऽपि ध्रुवत्वात् । अथवा, विवक्षया पिण्डोऽपादानं, तद्वतशर्करादीनामपायेऽपि विवेकेऽपि ध्रुवत्वात् । अथवा, घटापायाच्चक्रमापाको वाऽपादानमिति । 'वसुहेत्यादि' घटस्य चक्रं संनिधानमाधारः, तस्यापि वसुधा, तस्या अप्याकाशम्, अस्य पुनः स्वप्रतिष्ठत्वात् स्वरूपमाधारः इत्येवमादि यत् किमप्यानन्तर्येण परंपरया वा संविधानमाधारो घटस्य विवक्ष्यते तत् सर्वमपि तस्य कारणम्, तदभावे तस्य घटस्य यद् यस्मादसिद्धिः ।। इत्येकोनविंशतिगाथार्थः ॥ तदेवमुक्तं द्रव्यकारणम् ॥२११२॥ ।। २११३ ।। २११४ ।। २११५ ।। २११६ ।। २११७ ।। २११८ ॥ अथ भावकारणमाह भावमि होइ दुविहं अपसत्थ पसत्थयं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥२११९॥ भवतीति भाव औदयिकादिः स चासौ कारणं च संसाराऽपवर्गयोरिति भावकारणम् । ततश्च भावे भावकारणे विचार्ये द्विविधं कारणं भवति, अप्रशस्तं प्रशस्तं च- शोभनमशोभनं चेत्यर्थः । तत्राप्रशस्तं संसारस्य संवन्ध्येकविधमेकप्रकारं, द्विविधं, त्रिविधं च । चशब्दोऽनुक्तचतुर्विधादिसंसारकारणसमुच्चयार्थ इति ।। २११९ ।। अथ किं तदेकविधादि संसारस्य कारणम् ? इत्याह अजमो य एको अन्नाणं अविरई य दुविहं च । मिच्छत्तं अन्नाणं अविरई चेव तिविहं तु ॥ २१२० ॥ असंयमोऽविरतिलक्षणः स प्रधानतया विवक्षितः सन्नेकविध एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वेनाप्रधानत्वविवक्षणात् । तथा, अज्ञानमविरतिश्च प्रधानतया विवक्षितं द्विविधं संसारस्य कारणम् । तत्राज्ञानं मिथ्यात्वतिमिरोपप्लुतदृष्टेर्जीवस्य विपर्यस्तो बोधः, अविरतिस्तु सावययोगादनिवृत्तिः । तथा, मिथ्यात्वमज्ञानमविरतिश्चैवेति त्रिविधं संसारकारणम् । तत्र तत्त्वार्था ११० १ भावे भवति द्विविधमप्रशस्तं प्रशस्तं चाप्रशस्तम् । संसारस्यैकविधं द्विविधं त्रिविधं च ज्ञातव्यम् ॥ २११९ ॥ २ असंयमश्चैकोऽज्ञानमविरतिश्च द्विविधं च । मिथ्यात्वमज्ञानमविरतिश्चैव त्रिविधं तु ॥ २१२० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||८७३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202