________________
विशेषा०
॥८७३ ॥
Jain Education Internati
म्भविपर्ययो भवेत्, घटकारण संनिधानेऽप्यन्यत् किमपि शरावादिकार्ये भवेत्, अभावो वा भवेत् न किञ्चित् कार्ये भवेदित्यर्थः । तस्माद् बुद्ध्यध्यवसितं कार्यमध्यात्मनः कारणमेष्टव्यम् । किं बहुना ?, यथा यथा युक्तितो घटते तथा तथा सुधिया कर्मणः कारणत्वं वाच्यम्, अन्यथा कर्मणोऽकारकत्वे 'करोतीति कारकम्' इति षण्णां कारकत्वानुपपत्तिरेव स्यादिति ।
'भूपिंडेत्यादि' भूरपादानम्, पिण्डापायेऽपि ध्रुवत्वात् । अथवा, विवक्षया पिण्डोऽपादानं, तद्वतशर्करादीनामपायेऽपि विवेकेऽपि ध्रुवत्वात् । अथवा, घटापायाच्चक्रमापाको वाऽपादानमिति । 'वसुहेत्यादि' घटस्य चक्रं संनिधानमाधारः, तस्यापि वसुधा, तस्या अप्याकाशम्, अस्य पुनः स्वप्रतिष्ठत्वात् स्वरूपमाधारः इत्येवमादि यत् किमप्यानन्तर्येण परंपरया वा संविधानमाधारो घटस्य विवक्ष्यते तत् सर्वमपि तस्य कारणम्, तदभावे तस्य घटस्य यद् यस्मादसिद्धिः ।। इत्येकोनविंशतिगाथार्थः ॥ तदेवमुक्तं द्रव्यकारणम् ॥२११२॥ ।। २११३ ।। २११४ ।। २११५ ।। २११६ ।। २११७ ।। २११८ ॥
अथ भावकारणमाह
भावमि होइ दुविहं अपसत्थ पसत्थयं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥२११९॥
भवतीति भाव औदयिकादिः स चासौ कारणं च संसाराऽपवर्गयोरिति भावकारणम् । ततश्च भावे भावकारणे विचार्ये द्विविधं कारणं भवति, अप्रशस्तं प्रशस्तं च- शोभनमशोभनं चेत्यर्थः । तत्राप्रशस्तं संसारस्य संवन्ध्येकविधमेकप्रकारं, द्विविधं, त्रिविधं च । चशब्दोऽनुक्तचतुर्विधादिसंसारकारणसमुच्चयार्थ इति ।। २११९ ।।
अथ किं तदेकविधादि संसारस्य कारणम् ? इत्याह
अजमो य एको अन्नाणं अविरई य दुविहं च । मिच्छत्तं अन्नाणं अविरई चेव तिविहं तु ॥ २१२० ॥
असंयमोऽविरतिलक्षणः स प्रधानतया विवक्षितः सन्नेकविध एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वेनाप्रधानत्वविवक्षणात् । तथा, अज्ञानमविरतिश्च प्रधानतया विवक्षितं द्विविधं संसारस्य कारणम् । तत्राज्ञानं मिथ्यात्वतिमिरोपप्लुतदृष्टेर्जीवस्य विपर्यस्तो बोधः, अविरतिस्तु सावययोगादनिवृत्तिः । तथा, मिथ्यात्वमज्ञानमविरतिश्चैवेति त्रिविधं संसारकारणम् । तत्र तत्त्वार्था
११०
१ भावे भवति द्विविधमप्रशस्तं प्रशस्तं चाप्रशस्तम् । संसारस्यैकविधं द्विविधं त्रिविधं च ज्ञातव्यम् ॥ २११९ ॥ २ असंयमश्चैकोऽज्ञानमविरतिश्च द्विविधं च । मिथ्यात्वमज्ञानमविरतिश्चैव त्रिविधं तु ॥ २१२० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
||८७३ ॥
www.jainelibrary.org