SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ बृहवाचिः । श्रद्धानरूपं मिथ्यात्वं प्रतीतमेवेति । एवं कषायादियोगादन्येऽपि चतुर्विधादिसंसारकारणभेदा वक्तव्या इति ॥ उक्तमप्रशस्तं विशेषाभावकारणम् ॥ २१२० ॥ अथ प्रशस्तं भावकारणमाह॥८७४॥ होइ पसत्थं मोक्खस्स कारणमेगविह दुविह तिविहं च । तं चेव य विवरीयं अहिगार पसत्थएणेत्थं ॥२१२२॥ इह यद् मोक्षस्य कारणं हेतुस्तत् प्रशस्तभावकारणमुच्यते । किं पुनस्तत् ? इत्याह- 'ते चेव य विवरीयं ति' यदप्रशस्तमसंयमादि भावकारणमुक्तं तदेव विपरीतं सदेकविधं, द्विविधं त्रिविधं चप्रशस्तं भावकारणं भवति । तत्रासंयमाद् विपरीतः संयम एकविध प्रशस्तभावकारणं भवति; अज्ञाना-विरतिविपरीतं तु ज्ञान-संयमौ द्विविधम् , मिथ्यात्वा-ऽज्ञाना-विरतिविपरीतं सम्यग्दर्शन-ज्ञान-संयमरूपं तु त्रिविधमिति । तदेवं नामादिभेदतश्चतुर्विधकारणं विचार्य प्रस्तुते येनाधिकारस्तदाह- 'अहिगार पसत्थएणेत्थं ति' इह सामायिके विचार्यमाणे प्रशस्तेन भावकारणेनाधिकारः । सामायिकाध्ययनं हि क्षायोपशमिकभावरूपं वर्तते । स च प्रशस्तः, मोक्षकारणत्वात् । अतो युक्तमुक्तम्- 'प्रशस्तभावकारणेनात्राधिकारः' इति ॥ २१२१ ॥ अथ कारणद्वार एव कारणवक्तव्यतानुगतं प्रसङ्गतः किश्चिदाहतित्थयरो किंकारणं भासइ सामाइयं तु अज्झयणं । तित्थयरनामगोत्तं बई मे वेइअव्वं ति ॥ २१२२ ॥ तीर्थकरः किंकारणं किंनिमित्तं भाषते सामायिकाध्ययनम् । तुशब्दादन्यानि चाध्ययनानि, केवलज्ञानोत्पत्तितस्तस्य कृतकृत्यत्वात् किं तद्भाषणेन ? इत्यभिप्रायः । अत्रोच्यते- तीर्थकर इति नामगोत्रं संज्ञा यस्य तत् तीर्थकरनामसंज्ञकं कर्म पूर्व मया बद्ध तदिदानीमनेन प्रकारेण वेदितव्यम्, इत्यनेन कारणेन स तद् भाषत इति ॥२१२२ ॥ पुनरत्रैव च विनेयप्रश्नमुत्तरं चाह'तं च कहं वेइज्जइ अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसकइत्ता णं ॥२१२३ ॥ , भवति प्रशस्त मोक्षस्य कारणमेकविधं द्विविधं त्रिविधं च । तदेव च विपरीतमधिकारः प्रशस्तेनात्र ॥ २१२१ ॥ २ तीर्थकरः किंकारणं भाषते सामायिक स्वध्ययनम् । तीर्थकरनामगोत्रं बद्धं मया वेदितव्यमिति ।। २१२२ ॥ ३ तच कथं वेद्यतेअलान्या धर्मदेशनादिभिः । बध्यते तत्तु भगवतस्तृतीयभवमवध्वक्य ।। २१२५ ।। ||८७४॥ For Personal use only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy