________________
विशेषा
॥८७२॥
भूपिंडावायाओ पिंडो वा सक्करादवायाओ। चक्कमहावाओ वाऽपादाणं कारणं तं पि ॥ २११७ ॥ वसुहाऽऽगासं चकं सरूवामिच्चाइ संनिहाणं जं। कुंभस्स तं पि कारणमभावओ तस्स जदसिद्धी ॥ २११८॥
सप्तापि प्रायो व्याख्यातीर्थाः, नवरं क्रियते का निवर्त्यत इति व्युत्पत्तेः कर्म भण्यते । कासौ क्रिया कुम्भं प्रति ? । कर्तृव्यापाररूपा । सा च कुम्भलक्षणकार्यस्य कारणमिति प्रतीतमेव । आह- ननु कुलाल एव कुम्भं कुर्वन्नुपलभ्यते, क्रिया तु न काचित् कुम्भकरणे व्याप्रियमाणा दृश्यत इत्याह- इह निश्चेष्टः कुलालोऽपि यस्माद् न घट साध्यति निष्पादयति, या च तस्य चेष्टा सा क्रिया, इति कथं न तस्याः कुम्भकारणत्वम् ? इति । अथवा, कर्तुरीप्सिततमत्वात् क्रियमाणः कुम्भ एव कर्म। तर्हि कार्यमेवेदम् , अतः कथमस्य कारणत्वम् । न हि सुतीक्ष्णमपि सूच्यग्रमात्मानमेव विध्यति । ततः कार्य निर्वर्त्यस्यात्मन एव कारणमित्यनुपपन्नमेव, इत्याह'स कारणं बुद्धिहेउ ति स कुम्भः कारणं हेतुः कुम्भस्य । कुतः । प्रस्तावात् कुम्भबुद्धिहेतुत्वात् । इदमुक्तं भवति- सर्वोऽपि बुद्धौ संकल्प्य कुम्भादिकार्य करोतीति व्यवहारः, ततो बुद्ध्याऽध्यवसितस्य कुम्भस्य चिकीर्षितो मृन्मयकुम्भस्तद्बुद्ध्यालम्बनतया कारणं भवत्येव । न च वक्तव्यम्- अनिष्पन्नत्वादसमसौ तबुद्धेरपि कथमालम्बनं स्यात् , द्रव्यरूपतया तस्य सर्वदा सत्त्वादिति । ननु य एवेह मृन्मयकार्यरूपो घटस्तस्यैव कारणं चिन्त्यत इति प्रस्तुतम् , बुद्ध्याऽध्यवसितस्तु तस्मादन्य एव, इति तत्कारणाभिधानमप्रस्तुत| मेव । सत्यम् , भाविनि भूतवदुपचारन्यायेन तयोरेकत्वाध्यवसानाददोषः । स्थास-कोशादिकारणकालेऽपि हि 'किं करोषि' इति पृष्टः कुम्भकारः 'कुम्भं करोमि' इत्येतदेव वदति, बुद्ध्यध्यवसितेन निष्पत्स्यमानस्यैकत्वाध्यवसायादिति । अथवा, भव्यो योग्यः स्वरूपलाभस्येति शक्य उत्पादयितुम् , अतः सुकरत्वात् कार्यमप्यात्मनः कारणमिष्यते । अवश्यं च कर्मणः कारणत्वमेष्टव्यम् , यद् यस्मात् समस्तकारणसामग्रीसंनिधानेऽपि नैवमेकाशार्थ प्रारम्भः, किन्तु विवक्षितकार्यार्थम् , अतस्तदविनाभावित्वात् तक्रियायाः कार्यमप्यात्मनः कारणमिति । एतदेव भावयति-बाह्यानि कुलाल-चक्र-चीवरादीनि यानि निमित्तानि तदपेक्षं क्रियमाणकालेऽन्तरङ्गबुद्ध्यालोचितं कार्य भवति स्वस्यात्मनः कारणं स्वकारणम् , अन्यथा यदि बुद्ध्या पूर्वमपर्यालोचितमेव कुर्यात् तदा प्रेक्षापूर्व शून्यमनस्कार
, भूपिण्डापायात पिण्डो वा शर्कराद्यपायात् । चक्रमथापाको वाऽपादान कारणं तदपि ॥२१ ॥
वसुधाऽऽकाशं चक्र स्वरूपमित्यादि संनिधानं यत् । कुम्भस्य तदपि कारणमभावतस्तस्य यदसिद्धिः ॥ २११८॥ २ घ छ. 'तान'। ३ घ. छ. 'बुद्धावध्यवस्य कु' ।
॥८७२॥
For Personal and Price Use Only
SAMww.jainmibrary.org