________________
विशेषा० ॥८७१ ॥
Jain Education Internat
सामान्य; अन्यद् दिगादीनां लक्षणं स्वरूपम्, अन्यादर्श च सत्तासामान्यस्य इत्येवमभिधानादिवैलक्षण्याद् यथा भिन्ना अपि दिक्-कालादयः सत्तासामान्यात् सत्त्व- ज्ञेयत्वादिभिरभिन्नाः, तथा द्रव्यादपि तत्त्वादिशुक्लगुणादयोऽभिधानादिभिर्भिन्ना अपि सच्चज्ञेयत्वादिभिरभिन्ना इति । यद्यभिन्नास्तर्हि भेदः कथम् ? इत्याह- 'उवयारेत्यादि' ते चैव दिगादयो यथोपचारमात्रतः सत्तासामान्याद् भिन्नास्तथा गुणादयोऽपि द्रव्याद् भिन्नाः । इदमुक्तं भवति यथा सत्तासामान्यादभिन्नेष्वपि दिगादिष्वभिधानादिभेदाद् भेद उपचर्यते, एवं द्रव्याद् गुणादीनामपि तथाहि प्रभातसमये मन्दमन्दप्रकाशेऽविरल पत्र निचिततरुशाखानिलीनबलाकायाः पत्रविवरेण केनापि 'किञ्चिच्छुक्कमुपलभ्यते' इत्येवं शुक्लत्वं निश्चीयते, न तु बलाका । एतच्च गुण-गुणिनोः कथञ्चिद् भेदमन्तरेण नोपपद्यते, एकान्ताभेदे गुणग्रहणे गुणिनोऽवश्यं ग्रहणप्रसङ्गात् । तस्माद् द्रव्याद् गुणादीनां कथञ्चिद् भेदः, कथञ्चित् त्वभेद इति । तथा तेनैवोक्तप्रकारेण कारणात् कार्यमभिधानादिभेदाद् भिन्नं सच्च ज्ञेयत्वादिभिस्त्वभिन्नं यदि स्यात् तर्हि को दोषः, येन वैशेषिकादयो भेद एव कार्यकारणभावमिच्छन्ति । इति ।। २१०९ ।। २११० ॥ २१११ ॥
अथ षड्विधं व्यतिरिक्तकारणं व्याचिख्यासुराह—
कारणमहवा छद्धा तत्थ सततोत्ति कारणं कत्ता । कज्जपसाहगतमं करणम्मि उ पिंड दंडाई ॥ २११२ ॥ कम्मं किरिया कारणमिह निच्चिट्ठो जओ न साहेइ । अहवा कम्मं कुंभो स कारणं बुद्धिहेउ ति ॥ २११३॥ भव्वोति व जोग्गो त्ति व सक्को त्तिव सो सरूवलाभस्स । कारणसंनिज्झम्मि वि जं नागासत्यमारंभो ॥२११४॥ बज्झनिमित्तावेक्खं कज्जं वि य कज्जमाणकालम्मि । होइ सकारणमिहरा विवज्जया ऽभावया होज्जा ॥ २११५ ॥ देओस जस्स तं संपयाणमिह तं पि कारणं तस्स । होइ, तदत्थित्ताओ न कीरए तं विणा जं सो ॥२११६॥
१ कारणमथवा षोढा तत्र स्वतन्त्र इति कारणं कर्ता । कार्यप्रसाधकतमं करणे तु पिण्ड-दण्डादि || २११२ ॥ कर्म क्रिया कारणमिह निश्चेष्टो यतो न साधयति । अथवा कर्म कुम्भः स कारणं बुद्धिहेतुरिति ॥ २११३ ॥ भव्य इति वा योग्य इति वा शक्य इति वा स स्वरूपलाभस्य । कारणसांनिध्येऽपि यद् नाकाशार्थमारम्भः ॥ २११४ ॥ बाह्यनिमित्तापेक्षं कार्यमपि च क्रियमाणकाले । भवति स्वकारणमितरथा विपर्ययाऽभावते भवेताम् ॥ २११५ ॥ देयः स यस्मै तत् संप्रदानमिह तदपि कारणं तस्य । भवति, तदर्थित्वाद् न क्रियते तद् विना यत् लः ॥ २१३६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः।
॥ ८७१ ॥
www.jainelibrary.org