SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥ ८७० ॥ Jain Education Internat संयोगा येन कारणेन तन्तुधर्माः, अतो निमित्तकारणं न भवति, तद्विलक्षणरूपत्वात् । भवन्तु तर्हि समवायिकारणम्, तन्तुवत् तेषामपि पटे समवेतत्वात् । नैवम्, यतस्तन्तुद्रव्याद् द्रव्यान्तरं पटः, तस्माच्च द्रव्यान्तरं तन्तवः, 'द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाच गुणान्तरम्' इति सिद्धान्तादिति । ततः किम् ? इत्याह- द्रव्यान्तरधर्मस्य च यतो न द्रव्यान्तरे समवायः, शीतादीनामिव हुतभुजि, यस्मात् तन्तुधर्माणां तत्संयोगानां पटे द्रव्यान्तरे समवाय इष्यमाणे पट-तन्तुलक्षणयोः कार्य-कारणयोरेकता प्राप्नोति, इतरेतरगुणसमवायात् । ततश्च यथा पटधर्माः शुक्लादयः पढे समवेतत्वात् तदव्यतिरिक्ताः सन्तो न पटस्य कारणम्, एवं तन्तु संयोगा अपि न तत्कारणं स्युः, एकत्वे कार्यकारणभावायोगादिति । तदेवं वैशेषिकाः कार्य-कारणयोरेकत्वं कथमपि नेच्छन्ति ॥२१०७॥२१०८॥ आचार्यस्तु जैनत्वात् स्याद्वादितया कारणात् कार्य भिन्नमभिन्नं च पश्यन्नाह - जैह तंतू धम्मा संजोगा तह पडो वि सगुणा व्व । समवायाइत्तणओ दव्वस्स गुणादओ चैवं ॥२१०९॥ अभिहाण-बुद्धि-लक्खणभिन्ना वि जहा सदत्यओऽणन्ने । दिक्-कालाइविसेसा तह दुव्बाओ गुणाईआ॥२११०॥ उवयारमेत्तभिन्ना ते चैव जहा तहा गुणाईआ । तह कज्जं कारणओ भिन्नमभिन्नं च को दोसो ? ॥ २१११ ॥ ननु यथा तन्तूनां धर्मावर्तन्ते, के ?, तत्संयोगाः, तथा पटोऽपि तन्तूनां धर्म एव यथा तेषामेव तन्तूनां स्वगुणाः शुक्लादयस्तद्धर्मः । कुतः ? | समवायादित्वात् । इह यो यत्र समवेतः स तस्य धर्म एव यथा तन्तूनां स्वगुणाः शुक्कादयस्तद्धर्मः, समवेतच तन्तुषु पटः । तस्मात् तद्धर्मः पटः । यथा च तन्तूनां धर्मः पट एवं द्रव्यस्य गुणादयोऽपि गुण-कर्म- सामान्य विशेष-समवाया अपि धर्म इत्यर्थः । यदि नाम तन्तूनां धर्मः पटः द्रव्यस्य वा गुणादयो धर्मः, तथापि प्रस्तुते कारणात् कार्यस्य भेदाभेदे किमायातम् ? इत्याह- 'अभिहाणेत्यादि' यथा दिक्-काला-ऽऽत्मादयो विशेषा अभिधान-बुद्धि-लक्षणादिभिर्भिन्ना अपि, संश्वासावर्थश्च सदर्थः सत्तासामान्यमित्यर्थः, तस्मात् सव - ज्ञेयत्व प्रमेयस्वादिभिरनन्येऽभिन्नाः, तथा तेनैव प्रकारेण द्रव्याद् गुण-कर्म-सामान्य-समवायादयोऽनन्येSभेदवन्तः । इदमुक्तं भवति - दिक्-कालादीनामन्यदभिधानम्, अन्यच्च सामान्यस्य; अन्यादृशी दिगादिषु बुद्धि:, अन्यादृशीच सत्ता १ यथा सन्तूनां धर्माः संयोगास्तथा पटोऽपि स्वगुणा इव । समवायादिस्वतो द्रव्यस्य गुणादयश्चैवम् ॥ २१०९ ॥ अभिधान-बुद्धि-लक्षणभिन्ना अपि यथा सदर्थतोऽनन्ये । दिक्-कालादिविशेषास्तथा द्रव्याद् गुणादिकाः ॥ २११० ॥ भारत एव यथा तथा गुणादिकाः । तथा कार्य कारणतो भिन्नमभि च को दोषः १ ॥ २११३ ॥ For Personal and Private Use Only बृहद्वत्तिः । 1105211 www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy