________________
TO पृथिवीकालेऽपि घटो दृश्यतेति भावः, ततस्तस्माज्ज्ञायते- पृथिवीतोऽन्यो घट इति । एवं यथा मृद्-घटयोरन्या ऽनन्यत्वमेव, एवं विशेषा।
सर्वत्र कार्य-कारणयोस्तद् भावनीयमिति ॥ २१०४ ।।
'अहवा वि निमित्त-नेमिती' इत्येतद् व्याचिख्यासुराह।।८६९॥
जह तंतवो निमित्तं पडस्स वेमादओ तहा तेसिं । जं चेट्ठाइनिमित्तं तो ते पडयस्स नेमित्तं ॥ २१.५ ॥
यथा तन्तवः पटस्य निमित्तं कारणं तथा तेनैव प्रकारेण यस्मात् तेषां तन्तूनामातान-वितानादिचेष्टाया निमित्तं वेमादयस्ततस्ते निमित्तस्येदं नैमित्तिकं कारणं पटस्य भवतीति ॥ २१०६ ॥
'समवाइ असमबाई' इत्येतद्विवरणायाहसमवाइकारणं तंतवो पडे जेण ते समवयंति । न समेइ जओ कजे वेमाइ तओ असमवाई ॥ २१०६ ॥
समवायिकारणं तन्तवः पटस्य येन ते समवयन्ति पटे, येन पटस्तेषु समवेतः समुत्पद्यत इतीह तात्पर्यम् , 'इह तन्तुषु पटः' इत्येवं वैशेषिकैरभ्युपगमात् । वेमादि पुनः पटाख्ये कार्ये न समति न संश्लिष्यते, अतोऽसमवायिकारणं तदिति ॥ २१०६ ।।
वैशेषिकसिद्धान्तेऽपि मतभेदमुपदर्शयन्नाह"वेमादओ निमित्तं संजोगा असमवाई केसिंचि । ते जेण तन्तुधम्मा पडो य दव्वंतरं जेण ॥ २१०७॥ दव्वंतरधम्मस्स य न जओ दव्वंतरम्मि समवाओ। समवायम्मि य पावइ कारण-कज्जेगया जम्हा ॥२१०८॥
इह केषाश्चिद् वैशेषिकविशेषाणां मतेन चेमादयः, आदिशब्दात् सजातीया-ऽतज्जातीयतुरी-दिक्-कालादयश्च पटस्य निमित्तं निमित्तकारणम् , न त्वसमवायिकारणम् , तन्तुसंयोगमात्रनिमित्तत्वेन तन्तुलक्षणकारणद्रव्यानाश्रितत्वात् तेषामित्यभिप्रायः । के पुनस्तबसमवायिकारणम् ? इत्याह- संयोगास्तन्तुगुणास्तन्तुधर्मा इत्यर्थः, तन्तुलक्षणकारणाश्रितत्वात् । तथा चाह- ते तन्तु
१ गाथा २०९८ । २ यथा तन्तवो निमित्तं पटस्य वेमादयस्तथा तेषाम् । यच्चेष्टादिनिमित्तं ततस्ते पटस्थ नैमित्तिकम् ॥ २१०५॥ ३ गाथा २०९९। समवायिकारणं तन्तवः पटे येन ते समवयन्ति । न समवैति यतः कायें वेमादि ततोऽसमवायि ॥ २१.६॥
बेमादयो निमित्तं संयोगा असमंवायिनः केपाश्चित् । ते येन तन्तुधाः पटश्च द्रव्यान्तरं येन ॥ २१०७ ॥ ५ दग्यान्तरधर्मस्य च न यतो व्यान्तरे समवायः । समवाये च प्राप्नोति कारण-कार्यैकता यस्मात् ॥ २१०८ ॥
IndianCCIAL
SEARSHAN
॥८६९॥
Jan Education Intern
For Personal and Price Use Only