________________
विशेषा
I૮૬૮
वर्तते; तथाहि-न तन्तवः पटस्य कारणम् , भिन्नत्वात् , घटस्येवेति । किश्च, एत एकत्वेऽपि वस्तूनामभिधानादयो भिन्ना दृश्यन्त एव, ततः 'अनैकान्तिको हेतुः' इति शेषः, तथाहि- घटस्य रूपादीनां चैकत्वं लोके प्रतीतम्, अथचाभिधानादयो भिन्ना एव, तद्यथा- 'घट:' 'रूपादयः' इत्यभिधानभेदः, 'एको घटः' 'बहवो रूपादयः' इति संख्याभेदः, पृथुबुनोदराद्याकारलक्षणो घटः, रक्तत्वादिलक्षणा रूपादय इति लक्षणभेद, जलाहरणादिक्रियाकारको घटः, रङ्गाधानादिहेतवश्च रूपादय इति कार्यभेदः । ततोऽभिधानादिभेदात् भेद इत्यनकान्तिको हेतुः, यत एतदपि शक्यते वक्तुम्- अभिन्ने पट-तम्त्वादिलक्षणे कार्य-कारणे, अभिधानादिभेदात् , घट-रूपादिवदिति ॥ २१०२॥
थाह- यद्यैकत्ववद् भेदेऽपि कार्य-कारणयोस्तुल्य उपालम्भः, तर्हि कथं नाम लोकप्रसिद्धस्तन्तु-पटादीनां कार्य-कारणभावः सिध्यति ? इति भवन्त एव कथयन्तु, इत्याह
जं कज्ज-कारणाई पज्जाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारण-कज्जभयणेयं ॥२१०३ ॥
यद् यस्माद् घट-मृत्पिण्डादिलक्षणे कार्य-कारणे वस्तुनः पृथिव्यादेः पर्यायौ वर्तेते, तौ च घट-मृत्पिण्डलक्षणौ पृथ्वीपर्यायौ परस्परं यतो यस्मादन्यावनन्यौ च मतौ । तत्र संख्या-संज्ञा-लक्षणादिभेदादन्यत्वम् , मृदादिरूपतया सत्व-प्रमेयत्वादिभिश्चानन्यत्वम् । तस्मात् कार्य-कारणयोरियमन्या-ऽनन्यत्वलक्षणा भजना दृष्टव्या । ततश्च कश्चित् तयोः परस्परं भेदे, कथञ्चिवभेदे कार्यकारणभाव इति भावार्थः ॥ २१०३ ॥
एतदेवाहनेत्थि पुढवीविसिट्ठो घडो त्तिजं तेण जुज्जइ अणन्नो।जं पुण घडो त्ति पुब्वं न आसि पुढवी तओ अन्नो ॥२१०४॥
पृथिव्या मृत्तिकाया विशिष्ट व्यतिरिक्तो तन्मयो घटो नास्ति न दृश्यते यद् यस्मात् , तेन तस्माद् युज्यतेऽनन्यो मृत्तिकातो. ऽभिन्नः । यत् पुनः 'घटः' इति व्यक्तेन रूपेण पूर्व घटनिष्पत्तेः प्राग् नासीद् नाभूत किन्तु पृथिवी मृत्तिकैवासीत् , अन्यथा सर्वथैकत्वे
, यत् कार्य-कारणे पर्यायी वस्तुनो यतस्ती च । अन्याबनन्यौ च मती ततः कारण-कार्यभजनेयम् ॥ २१.३॥ २ नास्ति पृथिवीविशिष्ट्रो घट इति यत् तेन युज्यतेऽनन्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः ॥ २० ॥
॥८६८॥
For Personal