________________
बृहद्वत्तिः ।
विशेषा ॥८६७॥
रतया तस्यापि तत्रोपयोगात् । तच्च घटस्य चक्रम् , तस्यापि भूमिः, तस्याप्याकाशम् ।। इति नियुक्तिगाथाद्वयार्थः ॥२०९८॥
अथैतद् व्याचिख्यासुर्भाध्यकारः प्राह
तेदव्वकारणं तंतवो पडस्सेह जेण तम्मयया । विवरीयमनकारणमिटुं वेमादओ तस्स ॥ २१०० ॥
यदात्मकं कार्य दृश्यते तदिह तव्यकारणम्- तस्य कार्यद्रव्यस्य सजातीयत्वेन संवन्धि कारणं तद्रव्यकारणमित्यर्थः, यथा पटस्य तन्तवः, येन तन्मयता तन्त्वात्मकता पदस्य । उक्तविपरीतं तु यत् तदात्मक कार्य न भवति तदन्यद्रव्यकारणमिष्टम् , यथा तस्यैव पटस्य वेमादय इति ॥ २१००॥
अत्र परः प्रेरयन्नाहजेइ तं तस्सेव मयं हेऊ नणु कजकारणेगत्तं । न य तं जुत्तं ताई जओऽभिहाणाइभिन्नाइं ॥ २१०१॥
ननु यदि तत् तस्यैव पटस्य संबन्धि तन्तुद्रव्यं तस्यैव च पटस्य हेतुः कारणं मतं संमतम् , तन्ननु कार्य-कारणयोरेकत्वं पामोति, ततश्च न तन्तु-पटयोः कार्यकारणभावः, एकत्वात् , पट स्वरूपवदिति परस्याभिप्रायः। न च तत्कार्य-कारणयोरेकत्वं युक्तम् , यतस्ते कार्यकारणे अभिधानादिना भिन्ने वर्तेते, आदिशब्दात् संख्या लक्षण-कार्यपरिग्रहः; तथाहि- 'पट:' 'तन्तबः' इत्यभिधानभेदः, 'एकः पटः' 'बहवस्तन्तवः' इति संख्याभेदः, लक्ष्यतेऽनेनेति लक्षणं स्वरूपम् , तच्चान्यादृशं पटस्य, अन्यादृशं च तन्तूनामिति लक्षणभेदः, शीतत्राणादिकार्यः पटः, बन्धनादिकार्याश्च तन्तव इति कार्यभेदः । ततश्च भिन्ने पटतन्तुलक्षणे कार्य-कारणे, अभिधानादिभेदात् , घटपटादिवदिति । तथा च सति भवदभिप्रायेण यत् तयोरेकस्वमापतति, तदयुक्तमेवेति ॥ २१०१॥
अत्रोत्तरमाह-- तुल्लोऽयमुवालंभो भेए विन तंतवो घडस्सेव । कारणमेगते वि य जओऽभिहाणादओ भिन्ना ॥ २१०२ ॥ यस्तन्तु-पटयोरभेदपक्षे कार्य-कारणभावाभावप्रसङ्गलक्षण उपालम्भस्तव चेतसि वर्तते, स भेदेऽपि भेदपक्षेऽपि तुल्यः समान एव
, तद्ग्य कारणं तन्तवः पटस्यैह येन तन्मयता। विपरीतमन्यकारणमिष्टं बेमादयस्तस्य ॥ २१.०॥ २ यदि तत् तस्यैव मतं हेतुर्ननु कार्य-कारणैकत्वम् । न च तद् युक्तं ते यतोऽभिधानादिभिन्ने ॥ २१ ॥ ३ तुल्योऽयनुपालम्भो भेदेऽपि न तन्तवो घटस्येव । कारणमेकान्तेऽपि च यतोऽभिधानादयो भिन्नाः ॥ २१०२॥
॥८६७॥
Jan E
inema
For Personal and Price Use Only
ww.jainelibrary.org