________________
विशेषा०
॥८६६॥
Jain Education Internatio
द्रव्यकारणं तु ज्ञशरीर भव्य शरीरव्यतिरिक्तमाह- 'दुबिहु इत्यादि' व्यतिरिक्तद्रव्यकारणविषयो निक्षेपो द्विविधः । कथम् ? । 'तद्दव्वमनद ति' तद्रव्यकारणम्, अन्यद्रव्यकारणं चेत्यर्थः । तस्यैव जन्यस्य पटादेः सजातीयत्वेन संबन्धि द्रव्यं तन्त्वादि तद्द्रव्यम्, तच्च तत् कारणं च तद्द्द्रव्यकारणम्; तथा यत् तद्विपरीतं तदन्यद्रव्यकारणं जन्यपटादिविजातीयं वेमादीत्यर्थः । तद्द्रव्यकारणत्वे कार्य - कारणयोरेकत्वमिति प्रेर्यस्य परिहारं वक्ष्यति भाष्यकारः । अथवा, अन्यथा व्यतिरिक्तकारणस्यैव द्वैविध्यं निमित्तकारणं, नैमित्तिककारणं चेति । तत्र कार्यात्मन आसन्नभावेन जनकं निमित्तम्, यथा पटस्यैव तन्तवः, तद्व्यतिरेकेण पटस्यानुत्पत्तेः; तच्च तत् कारणं च निमित्तकारणम् ; यथा च तन्तुभिर्विना पटो न भवति तथा तद्गताऽऽतान-वितानादिचेष्टाव्यतिरेकेणापि न भवत्येव, तस्याश्च तच्चेष्टाया मादिकारणम्, अतो निमित्तस्येदं नैमित्तिकमिति । अथवा, अन्यथा व्यतिरिक्तकारणस्य द्वैविध्यमित्याह- 'समवायीत्यादि' 'सम्' एकीभावे, अवशब्दोऽपृथक्त्वे, 'अय् गतौ' 'इण् गतौ वा' । ततश्चैकीभावेनापृथग् गमनं समवायः संश्लेषः स विद्यते येषां ते समवायिनस्तन्तवः यस्मात् तेषु पटः समवैतीति समवायिनश्च ते कारणं च समवायिकारणम् । तन्तुसंयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वादसमवायिनस्त एव कारणमसमवायिकारणम् । आह- ननु तद्द्द्रव्यादिप्रकारत्रयेऽपि यथोक्तन्यायेनार्थस्याभेद एव इति किं भेदेनोपन्यासः ? | सत्यम्, किन्तु तन्त्रान्तराभ्युपगत संज्ञान्तरप्रदर्शनपरत्वाददोषः । अथवा, व्यतिरिक्तं द्रव्यकारणं 'छवि त्ति' अनुस्वारस्य लुप्तस्य दर्शनात् षड्विधं पद्मकारम् । कथम् ? । कर्ता कुलाललक्षणस्तावत् कार्यस्य घटादेः कारणम्, तस्य तत्र स्वातन्त्र्येण व्यापारात् । तथा, करणं च मृत्पिण्ड-दण्ड-सूत्रादिकं घटस्थ करणम्, साधकतमत्वात् । तथा, क्रियते निर्वर्त्यते यत् तत् कर्म घटलक्षणं तदपि कारणम् । आह- ननु कथमात्मैवात्मनः कारणम्, अलब्धात्मलाभस्य तस्य कारणत्वानुपपत्तेः १ । सत्यम्, कुलालादिकारणव्यापृतिक्रियाविषयत्वादुपचारतस्तस्य कारणत्वम् । उक्तं च
“निर्वर्त्य वा विकार्य वा प्राप्यं वा यत् क्रियाफलम् । तद् दृष्टादृष्टसंस्कारं कर्म कर्तुर्यदीप्सितम् ॥ १ ॥
तदेवं क्रियाफलत्वेन कार्यस्यापि कारणत्वम्, अन्यथा कुलालादिक्रियावैयर्थ्यप्रसङ्गादिति । मुख्यवृत्त्या वासौ कार्यगुणेन कारणत्वम् । तथा, सम्यक् सत्कृत्य वा प्रयत्नेन दानं यस्मै तत् संप्रदानं घटग्राहकदेवदत्तादि । तदपि घटस्य कारणम्, तदुद्देशेनैव घटस्य निष्पत्तेः, तदभावे तन्निष्पत्ययोगादिति । 'अवयाण त्ति' 'दो अवखण्डने' दानं खण्डनम्, अपसृत्य आ-मर्यादया दानं खण्डनं नियोजनं मृत्पिण्डादेर्यस्मात् तद् मृत्पिण्डापायेऽपि धुत्रत्वाद् भूमिलक्षणमपादानम् । तदपि कार्यस्य घटस्य कारणम्, तदन्तरेणापि तस्यानुत्पत्तेः। तथा, संनिधीयते स्थाप्यते कार्य यत्र तत् संनिधानमाधारः, अधिकरणमित्यर्थः । तदपि कार्यस्य कारणम्, आधा
For Personal and Private Use Only
बृहद्वृत्तिः ।
||८६६ ॥
www.jainelibrary.org