SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८६५॥ Jain Educationa Internat कथं पुनः शुद्धो जीवो भावपुरुषः १ इत्याह देव्वपुरिसाइभेया विजं च तस्सेव होंति पजाया । तेणेह भावपुरिसो सुद्धो जीवो जिनिंदो व्व ॥ २०९६ ॥ न केवलं यथोक्तनिरुक्तवशाद् भावपुरुषो जीव उच्यते यस्माच्च द्रव्या-भिलाप-चिह्नादिपुरुषभेदा अपि तस्यैव शुद्धजीवस्य पर्याया भवन्ति । तेनाद्यप्रकृतित्वात् शुद्धो निर्विशेषणो जीव एवेह भावपुरुषः, जिनेन्द्रवदिति ।। २०९६ ॥ केन पुनः पुरुषेणेहाधिकारः १ इत्याह- पैयं विसेसओ तेण वेयपुरिसेहिं गणहरेहिं च । विसेसा वि जहासंभवमाउज्जा उभयवग्गे वि ॥ २०९७ ॥ अनेकविधपुरुषप्ररूपणेsत्र विशेषतः प्रकृतं प्रस्तुताधिकारस्तेन भावजीवरूपेण जिनेन्द्रेण श्रीन्महावीरेण तस्यैवार्थतः सामायिकदत्वात् तथा, सूत्रतस्तत्प्रणेतृभिर्वेदपुरुषैर्गणधरैश्वेहाधिकारः । आह- ननु जिनेन्द्रो यथा भावपुरुषस्तथा सदैव धर्मव्यापारनिरतत्वाद् धर्मपुरुषोऽपि भवति, तथा चिह्नपुरुषोऽपि पुरुषचिह्नयुक्तत्वात्, एवं गणधरेष्वपि वाच्यम्; ततश्च यथा भावपुरुषेण वेदपुरुषैश्वाधिकारः, तथा धर्मादिपुरुषैरप्यधिकारोऽत्र वक्तुं युज्यत एव इत्याशङ्क्याह- शेषा अपि धर्मपुरुषादयो यथासंभवं तीर्थकर-गणधरलक्षण उभयवर्गेऽप्यायोज्याः । ततः संभवद्भिर्धर्मपुरुषादिभिरपीहाधिकारी वाच्य इति भावः । इति गायासतकार्थः । तदेवं व्याख्यातं पुरुषद्वारम् ॥। २०९७ ।। १०९ अथ कारणद्वारमभिधित्सुराह— निक्खेवो कारणम्मी चउव्विहो दुबिहु होइ दव्वम्मि । तद्दव्यमन्नदव्वे अहवा वि निमित्त नेमित्ती ॥२०९८|| समवाई असमवाई छव्विह कत्ता ये करण कम्मं च । तत्तो य संपयाणापयाण तह संनिहाणे य ॥२०९९|| इह करोति कार्यमिति कारणम् । तस्य नाम स्थापना- द्रव्य भावभेदाच्चतुर्विधो निक्षेपो न्यासः । तत्र नाम-स्थापने सुज्ञाने । १ द्रव्यपुरुषादिभेदा अपि यच तस्यैव भवन्ति पर्यायाः । तेनेह भावपुरुषः शुद्धो जीवो जिनेन्द्र इव ॥ २०९६ ॥ ३ प्रकृतं विशेषतस्तेन वेदपुरुषैर्गणधरैश्च । विशेषा अपि यथासंभवमायोज्या उभयवर्गेऽपि ॥ २०९७ ॥ ४ निक्षेपः कारणे चतुर्विधो द्विविधो भवति द्रव्ये । तद्द्रव्याऽन्यद्रव्ये अथवापि निमित्तनैमित्तिके ॥ २०९८ ॥ समवायि असमवाथि पद्विधं कर्ता च करणं कर्म च । ततश्च संप्रदानमपादानं तथा संनिधानं च ॥ २०९९ ॥ For Personal and Private Use Only २ घ. छ. 'व्यपुरुषाच' । ५ न. 'य कम्म करणं च' । बृहद्वृत्तिः। |||८६५ ॥ ww.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy