SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहदत्तिः 11८६४॥ अभिलावो पुंलिंगाभिहाणमेत्तं घडो व्व चिंधे उ । पुरिसागिई नपुंसो वेओ वा पुरिसवेसो वा ॥२०९२॥ अभिलापः शब्दस्तद्रूपः पुरुषोऽभिलापपुरुषः, यथा पुरुष इति पुंलिङ्गकृत्त्यभिधानमात्रम् , घटः पट इत्यादि । चिह्न चिह्न- विषये पुरुषश्चिह्नपुरुषः । पुरुषाकृतिर्नपुंसकात्मा श्मश्रुमभृतिपुरुषचिह्नयुक्तः । अथवा, वेदः पुरुषवेदश्चिह्नपुरुषः, चिद्यते लक्ष्यते पुरुषोऽनेनेति कृत्वा । अथवा, पुरुषस्य संबन्धी वेषो यस्य स पुरुषवेष च्यादिरपि चिह्नमात्रेण पुरुषश्चितपुरुष इति ॥ २०९२ ।। वेद-धर्मपुरुषौ पाहवेयपुरिसो तिलिंगो वि पुरिसवेयाणुभूइकालम्मि | धम्मपुरिसो तयजणवावारपरो जहा साहू ॥ २०९३ ॥ स्त्री-पुं-नपुंसकलिङ्गत्रयवृत्तिरपि पाणी यदा तृणज्वालोपमविपाकं पुरुषवेदमनुभवति तदा पुरुषवेदानुभावमाश्रित्य पुरुषो बेदपुरुषः च्यादिरप्युच्यते । धर्मार्जनव्यापारपरो धर्मपुरुषो यथा साधुरिति ॥ २०९३ ।। अर्थ-भोगपुरुषौ प्राहअत्थपुरिसो तयज्जणपरायणो मम्मणो व्व निहिपालो । भोगपुरिसो समजियविसयसुहो चक्कवट्टि व्य ॥२०९॥ गतार्था । नवरं राजगृहनगरनिवासी रत्नमयबलीवर्दनिर्मापको मम्मणवणिगावश्यकवृत्तितोऽवसेय इति ॥ २०९४ ॥ भावपुरुषमाहभावपुरिसो उ जीवो सरीरपुरि सयणओ निरुत्तवसा । अहवा पूरण-पालणभावाओ सब्वभावाणं ॥२०९५॥ भावपुरुषस्तु द्रव्या-ऽभिलाप-चिह्नायुपाधिरहितः शुद्धो जीवः । कुतः ? । पूः शरीरम् , तत्र शयनाद् निवसनात् पुरुष इत्येवंभूतनिरुक्तवशात् । अथवा, सर्वेषामपि स्वर्ग-म-पातालगतानां स्वगविमान-भवन-शयना-ऽऽसन-यान-वाहन-देहविभवादिभावानां नानाभवेषु 'पृ पालन पूरणयोः' पूरण-पालनभावाद् भावरूपः पारमार्थिकः पुरुषो भावपुरुषः शुद्धो जीव इति ॥ २०९५ ॥ , अभिलापः पुंलिकाभिधानमात्रं घट इव चिह्वे तु । पुरुषाकृतिर्नपुंसको वेदो वा पुरुषवेपो वा ॥ २०५२ ॥ २ वेदपुरुषस्त्रिलिङ्गोऽपि पुरुषवेदानुभूतिकाले । धर्मपुरुषस्तदर्जनव्यापारपरो यथा साधुः ॥ २०९३ ॥ ३ अर्थपुरुषस्तदर्जनपरायणो मम्मण इव निधिपालः । भोगपुरुषः समर्जितविषयसुखचक्रवर्तीव ॥ २०९४ ॥ ४ भावपुरुषस्तु जीवः शरीरपुरि शयनतो निरुक्तवशात् । अथवा पूरण-पालनभावात् सर्वभावानाम् ॥ २०९५॥ ||८६४॥ Jan Education Inter For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy