Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहद्वृत्तिः ।
॥८७५॥
'नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्नयरएहिं ॥ २१२४ ॥
एतयोाख्यानं पूर्ववदेव, नवरं तत् पुनस्तीर्थकरनामकर्म बद्धं सत् कथं वेद्यते ? इति प्रश्नः । अत्रोत्तरम्- अग्लान्या- ऽनिर्वेदेन धर्मदेशनादिभिः । तच्च भगवतस्तीर्थकरस्यैव- यस्तीर्थकरो भविष्यति तस्यैव वध्यते बन्धमायाति । कदा ? इत्याहसिद्धिगमनभवात् तृतीयभवं यावदवष्वक्यापसृत्य । इदमुक्तं भवति- अनेन बद्धेन भवत्रयमेव संसारेऽवतिष्ठते, ततः सिध्यति । एकस्तावत् स एव मनुष्यभवो यत्र तद् बध्यते, द्वितीयस्तु देवभवः, नरकभवो वा, तृतीयभवे तु तीर्थकरो भूत्वा सिध्यति । तच्च नियमाद् मनुष्यगतावेव पारम्भमाश्रित्य सम्यग्दृष्टिमनुष्यो बध्नाति, नान्यगतावन्यः । कथंभूतो मनुष्यः ? इत्याह- स्त्री, पुरुषः, इतरो वा पुरुषनपुंसकवेदको मन्त्रादिकारणैरुपहतपुरुषवेदः सन् यो नपुंसकः, न तु क्लिष्टः पण्डकादिरित्यर्थः । कथंभूतः पुनः स्यादिः ? इत्याह- सम्यग्दर्शनादिगुणयुक्तत्वात् शुभलेश्यः। कैः पुनः कारणैः सोऽपि बनाति ? इत्याह- 'अरहंत-सिद्ध-पवयण' इत्यादिना | पूर्वमभिहितैर्बहुलैः पुनः पुनरासेवितैः संपूर्णविंशत्या कारणैः, अन्यतरैबैंक-द्वि-व्यादिभिरतिपुष्टिं नीतैरिति ॥ १२२३ ॥२१२४ ॥
एवं तीर्थकृतः सामायिकाध्ययनभाषणकारणमभिधाय, अथ गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणमभिधित्सुराह
गोयममाई सामाइयं तु किंकारणं निसामेति । नाणस्स तं तु सुन्दर-मङ्गुलभावाण उवलद्धी ॥ २१२५ ॥ होइ पवित्ति-निवित्ती संजम-तव पावकम्मअग्गणं । कम्मविवेगो य तहा कारणमसरीरया चेव ॥२१२६॥ कम्मविवेगो असरीरयाइ असरीरयाऽणबाहाए । होअणबाहनिमित्तं अवेयणु अणाउलो निरुओ ॥२१२७॥ निरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ॥ २१२८ ॥
, नियमाद् मनुष्यगतौ स्त्री पुरुष इतरो वा शुभलेश्यः । आसेवितबहुलैविशत्या अन्यतरैः ।। २०२४ ॥ २ आ. नि. पृ० २८ । ३ गौतमादयः सामायिकं तु किंकारणं निशमयन्ति । ज्ञानाय तत्तु सुन्दर-माल(तदितर)भावानामुपलब्धये ॥ २१२५॥
भवतः प्रवृत्ति-निवृत्ती संयम-तपसोः पापकर्माग्रहणम् । कर्मविवेकश्च तथा कारणमशरीरता चैव ॥ २१२५ ।। कर्मविवेकोऽशरीरताया अशरीरताऽनाबाधायाः । भवत्यनाबाधनिमित्तमवेदनोऽनाकुलो नीरुक् ॥ २१२७ ॥ निरुक्तयाऽचलोऽचलतया च शाश्वतो भवति । शाश्वतभावमुपगतोऽज्याबाधं सुखं लभते ॥ २१२८॥
८७५||
Jan Education interna
For Personal and Price Use Only
dwww.jainelibrary.org
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202