Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
BOO
विशेषा
बृहदत्तिः ।
॥८४९॥
B
REEDERealesalejeareesToTS
येन प्रकारेण वर्षशतभोग्यत्वलक्षणेन पूर्वमुपचितं तेन जीवन बद्धं यथोपचितमिति- यादृशं पूर्वजन्मनि बद्धं तादृशमेव तन्न भवतीत्यर्थः। वर्षशतभोग्यं हि दीर्घकालस्थितिक पूर्वभवे बद्धम् , उपक्रमानन्तरं तु यदन्तर्मुहूर्तादिलघुस्थितिकमनुभवत्यायुस्तदन्यदेव, अन्यथाऽनुभ-- | वादिति भावः । ततः को दोषः ? इत्याह- 'तहाणुभवो इत्यादि' तथा तेन प्रकारेण पूर्वबद्धविलक्षणमायुरनुभवतो जीवस्य पूर्वोक्ता अकृतागमादयो दोषाः प्रसजन्ति । अत्रोत्तरमाह- 'तप्पाओग्गमित्यादि' तस्योपक्रमस्य प्रायोग्यं योग्यं तत्मायोग्यमुपक्रमाईमेव तदायुः कर्म तेन सोपक्रमायुषा जीवेन चितं पूर्वजन्मनि बद्धम्, साध्यरोगवदिति । ततश्च यथोपक्रमसाध्यो रोगो व्याधिः केनापि प्रागुपार्जित इत्युपक्रम्य तं स्फोट यति, न च तस्प तथा कुर्वतोऽकृतागमादयः, एवमायुरप्पुपक्रमसाध्यतया बद्धत्वाद् यापक्रम्यैव वेदयति तदा के तस्याकृतागमादयः इति ।। २०५४ ॥
ननु साध्योऽसाध्यो वा रोग इति कथं ज्ञायते ? इत्याहअणुवक्कमओ नासइ कालेणोवक्कमेण खिप्पं ति | कालेणं वाऽसज्झो सज्झासझं तहा कम्मं ॥ २०५५ ॥
'साध्यो रोगः, इति वर्तते । स चानुपक्रमत उपक्रमाभावात् कालेन निजभुक्तिच्छेदेन नश्यति, उपक्रमेण तु विहितेन क्षिप्रमर्वागपि शीघं नश्यति, साध्यत्वादेव । यस्त्वसाध्यो रोगः स कालो मरणं तेनैव नश्यति, न तूपक्रमशतैरपि, तथा कर्मापि यत् साध्यं बन्धकालेऽप्युपक्रमसव्यपेक्षमिव बद्धं तदुपक्रमसामग्यभावे कालेन संपूर्णवर्षशतादिलक्षणेन निजभुक्तिच्छेदेन नश्यति, उपक्रमसामग्रीसंनिधाने तु शीघ्रमन्तर्मुहूर्तादिनैव कालेन नश्यति, साध्यत्वादेव । यत् पुनरसाध्यं बन्धकाले निकाचितावस्थमनुपक्रममेव बद्धं तदनेकोपक्रमसद्भावेऽपि निजभुक्तिपरिपूर्तिकालमन्तरेण न नश्यतीति ॥ २०५५ ॥
अस्यैवार्थस्य साधनार्थ प्रमाणयन्नाहसज्झासझं कम्मं किरियाए दोसओ जहा रोगो । सज्झमुवक्वामिजइ एत्तो च्चिय सज्झरोगो व्व ॥ २०५६ ॥ _ 'किरियाए त्ति' क्रियाया उपक्रमलक्षणायाः साध्यमसाध्यं च कर्म भवतीति प्रतिज्ञा । 'दोसउत्ति' दोषत्वादिति हेतुः। यो यो दोषः स स उपक्रमक्रियायाः साध्योऽसाध्यश्च भवति, यथा ज्वरादिरोगः, यच्च साध्यं तदुपक्रम्यते, 'एत्तो चिय त्ति' साध्यत्वादेव । साध्यरोगवदिति ॥ २०५६ ॥ १ अनुपक्रमतो नश्यति कालेनोपक्रमेण क्षिप्रमिति । कालेनेवाऽसाध्यः साध्यासाध्यं तथा कर्म । २०५५ ॥
E २ साध्यासाध्य कर्म क्रियाया दोषतो यथा रोगः । साध्यमुपक्रम्यत एतस्मादेव साध्यरोग इव ॥ २०५६ ॥
८४९॥
Jan Education Intema
For Personal and
Use Only
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202