SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ BOO विशेषा बृहदत्तिः । ॥८४९॥ B REEDERealesalejeareesToTS येन प्रकारेण वर्षशतभोग्यत्वलक्षणेन पूर्वमुपचितं तेन जीवन बद्धं यथोपचितमिति- यादृशं पूर्वजन्मनि बद्धं तादृशमेव तन्न भवतीत्यर्थः। वर्षशतभोग्यं हि दीर्घकालस्थितिक पूर्वभवे बद्धम् , उपक्रमानन्तरं तु यदन्तर्मुहूर्तादिलघुस्थितिकमनुभवत्यायुस्तदन्यदेव, अन्यथाऽनुभ-- | वादिति भावः । ततः को दोषः ? इत्याह- 'तहाणुभवो इत्यादि' तथा तेन प्रकारेण पूर्वबद्धविलक्षणमायुरनुभवतो जीवस्य पूर्वोक्ता अकृतागमादयो दोषाः प्रसजन्ति । अत्रोत्तरमाह- 'तप्पाओग्गमित्यादि' तस्योपक्रमस्य प्रायोग्यं योग्यं तत्मायोग्यमुपक्रमाईमेव तदायुः कर्म तेन सोपक्रमायुषा जीवेन चितं पूर्वजन्मनि बद्धम्, साध्यरोगवदिति । ततश्च यथोपक्रमसाध्यो रोगो व्याधिः केनापि प्रागुपार्जित इत्युपक्रम्य तं स्फोट यति, न च तस्प तथा कुर्वतोऽकृतागमादयः, एवमायुरप्पुपक्रमसाध्यतया बद्धत्वाद् यापक्रम्यैव वेदयति तदा के तस्याकृतागमादयः इति ।। २०५४ ॥ ननु साध्योऽसाध्यो वा रोग इति कथं ज्ञायते ? इत्याहअणुवक्कमओ नासइ कालेणोवक्कमेण खिप्पं ति | कालेणं वाऽसज्झो सज्झासझं तहा कम्मं ॥ २०५५ ॥ 'साध्यो रोगः, इति वर्तते । स चानुपक्रमत उपक्रमाभावात् कालेन निजभुक्तिच्छेदेन नश्यति, उपक्रमेण तु विहितेन क्षिप्रमर्वागपि शीघं नश्यति, साध्यत्वादेव । यस्त्वसाध्यो रोगः स कालो मरणं तेनैव नश्यति, न तूपक्रमशतैरपि, तथा कर्मापि यत् साध्यं बन्धकालेऽप्युपक्रमसव्यपेक्षमिव बद्धं तदुपक्रमसामग्यभावे कालेन संपूर्णवर्षशतादिलक्षणेन निजभुक्तिच्छेदेन नश्यति, उपक्रमसामग्रीसंनिधाने तु शीघ्रमन्तर्मुहूर्तादिनैव कालेन नश्यति, साध्यत्वादेव । यत् पुनरसाध्यं बन्धकाले निकाचितावस्थमनुपक्रममेव बद्धं तदनेकोपक्रमसद्भावेऽपि निजभुक्तिपरिपूर्तिकालमन्तरेण न नश्यतीति ॥ २०५५ ॥ अस्यैवार्थस्य साधनार्थ प्रमाणयन्नाहसज्झासझं कम्मं किरियाए दोसओ जहा रोगो । सज्झमुवक्वामिजइ एत्तो च्चिय सज्झरोगो व्व ॥ २०५६ ॥ _ 'किरियाए त्ति' क्रियाया उपक्रमलक्षणायाः साध्यमसाध्यं च कर्म भवतीति प्रतिज्ञा । 'दोसउत्ति' दोषत्वादिति हेतुः। यो यो दोषः स स उपक्रमक्रियायाः साध्योऽसाध्यश्च भवति, यथा ज्वरादिरोगः, यच्च साध्यं तदुपक्रम्यते, 'एत्तो चिय त्ति' साध्यत्वादेव । साध्यरोगवदिति ॥ २०५६ ॥ १ अनुपक्रमतो नश्यति कालेनोपक्रमेण क्षिप्रमिति । कालेनेवाऽसाध्यः साध्यासाध्यं तथा कर्म । २०५५ ॥ E २ साध्यासाध्य कर्म क्रियाया दोषतो यथा रोगः । साध्यमुपक्रम्यत एतस्मादेव साध्यरोग इव ॥ २०५६ ॥ ८४९॥ Jan Education Intema For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy