SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ हदत्तिः । विशेषा. ॥८४८॥ न खलु 'कार्यभूतो घटश्चक्र-चीवरादीन्यपेक्ष्यैव जायते, तत्कारणभूतस्तु कुलालश्चक्राद्यनपेक्ष एव घटं जनयति' इत्युच्यमानं शोभा विभर्ति । तस्मादुदयादीन् प्रति द्रव्यादिसव्यपेक्षाणां कर्मणां युक्तस्तत्सन्निधानादुपक्रम इति ॥ २०५१ ॥ यदि पुर्यथा बद्धं तथैव वेद्यते सर्व कर्म, न पुनरुपक्रम्यते, तदा किं दूषणम् ? इत्याह - जेइ ताणुभूइउ चिय खविज्जए कम्ममन्नहा न मयं । तेणासंखभवज्जियनाणागइकारणत्तणओ ॥२०५२॥ नाणाभवाणुभवणाभावादेवम्मि पज्जएणं वा । अणुभवओ बंधाओ मोक्खाभावो स चाणिट्ठो ॥२०५३॥ यदि तावद् यथा बदं तथैव प्रतिसमयानुभूतितः प्रतिसमयं विपाकानुभवनेन कर्म क्षिप्यत इति तवानुमतं, नान्यथा, नोपक्रमद्वारेणाऽऽश्वेव तत्क्षपणमभिप्रेतम् । हन्त ! तेन तर्हि सर्वस्यापि जन्तोर्मोक्षाभावस्त्वदभिप्रायेण प्रामोति, स चानिष्ट एव । कस्मात् पुनर्मोक्षाभावप्राप्तिः ? इत्याह- तद्भवसिद्धिकस्यापि सत्तायामसंख्येयभवार्जितकर्मणः सद्भावात् , तस्य च नानाध्यवसायबद्धत्वेन नरकादिनानागतिकारणत्वात् , ततस्तस्य विपाकत एवानुभवन एकस्मिन्नपि तत्र चरमभवे नानाभवानामनुभवनं प्राप्नोति, तचायुक्तम् , कुतः? इत्याह- 'नाणाभवाणुभवणाभावादेकम्मि त्ति तत्र चैकस्मिन् मनुष्यगतिवर्तिनि चरमभवे नारक-तिर्यगादिनानाभवानां परस्परविरुद्धत्वेनानुभवनाभावात् । तर्हि तन्नानागतिकारणं कर्म पर्यायेणापि क्रमेण नानाभवेष्वनुभूय सिध्यतु, किमेतावता विनश्यति । तदयुक्तम् । कुतः? इत्याह- 'पज्जएणं वा अणुभवओ बन्धाउ त्ति' इदमुक्तं भवति-पर्यायेण वा क्रमेण तान् नानाभवान् विपाकतोऽनुभवतः पुनरपि नानागतिकारणस्य कर्मणो बन्धः, पुनरपि च क्रमेण नानाभवभ्रमणम् , पुनर्नानागतिकारणकर्मबन्ध इत्येवं मोक्षाभावः। एतच्चानिष्टम् । तस्मादेष्टव्यः कर्मणामुपक्रम इति ॥ २०५२ ॥ २०५३॥ अथ प्रकारान्तरेणोत्तरदित्सया पूर्वविहितमेव प्रेय पुनः कारयन्नाहनेणु तन्न जहोवचियं तहाणुभवओ कयागमाईया। तप्पाओगं तं चिय तेण चियं सज्झरोगो व्व ॥२०५४॥ 'नणु तन्न जहोचचियं ति' ननु यदुपक्रमाल्लघुस्थितिक कृत्वा जीवो वेदयति, तदायुष्कर्म न भवति । कथंभूतम् ? इत्याह 1 यदि तावदनुभूतित एव क्षप्यते कर्मान्यथा न मतम् । तेनासंख्यभवार्जितनानागतिकारणत्वतः ॥ २०५२ ॥ नानाभवानुभवनाभावादेकस्मिन् पर्षयेण वा । अनुभवतो बन्धाद् मोक्षाभावः स चानिष्टः ॥ २०५५॥ ननु तन यथोपचितं तथानुभवतः कृतागमादिकाः । तत्प्रायोग्यं तदवे तेन चितं साध्यरोग इव ॥ २०५४ . AdSRPROO Incan
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy