________________
विशेषा०
वृद्धा
॥८४७॥
उदय-खय-खयोवसमो-वसमा जं च कम्मणो भणिया। दवाइपंचयं पइ जुत्तमुक्कामणमओ वि ॥२०५०
यच यस्मादुदयश्च क्षयश्च क्षयोपशमश्चोपशमश्चोदय-क्षय-क्षयोपशमो-पशमास्ते कर्मणो द्रव्य-क्षेत्र-काल-भव-भावपञ्चकं प्रति भणिताः- द्रव्यादीनाश्रित्योक्ताः, अतोऽपि कारणाच्छवादिद्रव्याणि प्राप्यायुष्कादीनां युक्तमुपक्रमणं क्षय इति । तथाहि- असातवेदनीयस्य कर्मणो द्रव्यमहिविष-कण्टकादि प्राप्योदयो भवति, क्षेत्रं तु नरकावासादिकम् , कालं तीव्रनिदाघसमयादिकम् , भवं नारकभवादिकम् , भावं तु वृद्धभावादिकम् । क्षयोऽप्यस्य द्रव्यं सद्गुरुचरणारविन्दादिकं प्राप्य भवति, क्षेत्रं तु पुण्यतीर्थादिकम् । कालं सुषमदुःषमादिकम् , भवं सुमनुजकुलजन्मलक्षणम् , भावं तु सम्यग्ज्ञान-चरणादिकम् । क्षयोपशमो-पशमौ तु वेदनीयस्य न भवतः। एवं मोहनीयेऽपि मिथ्यात्वमोहनीयस्य द्रव्यं कुतीर्थ्यादिकं प्राप्योदयो भवति, क्षेत्रं तु कुरुक्षेत्रादिकम् , साध्वादिरहितदेशादिकं वा, कालं दुःषमादिकम् , भवं तेजो-वायवेकेन्द्रियादिकम् , अनार्यमनुजकुलरूपं वा, भावं तु कुसमयदेशनादिकमिति । क्षय-क्षयोपशमो पशमास्त्वस्य द्रव्यं तीर्थकरादिकं प्राप्य भवन्ति, क्षेत्रं तु महाविदेहादिकम् , कालं सुषमदुःषमादिकम् , भवं सुमनुजकुल जन्म, भावं तु सम्यग्ज्ञान-चरणादिकमिति । एवं शेषेऽपि ज्ञान-दर्शनावरणादिके कर्मणि निद्रावेदनीयकर्मणो माहिषदधि-वृन्ताकादिकं द्रव्यमासाद्योदयो भवति, क्षेत्रं त्वनूपादिकम् , कालं ग्रीष्मादिकम् , भवमेकेन्द्रियादिकम् , भावं तु वृद्धत्वादिकमिति । क्षयोऽप्यस्योक्तानुसारेण वाच्यः। क्षयोपशमो-पशमौ त्वस्यापि न भवतः । एवमन्येषामपि कर्मणामुदयादयो यथायोगं द्रव्यादीन् प्राप्य स्वधिया भावनीया इति ॥२०५०॥
अथ दृष्टान्तद्वरेण कर्मणां द्रव्य-क्षेत्रादिसहकारिकारणापेक्षा साधयन्नाह
पुण्णा-ऽपुण्णकयं पि हु सायासायं जहोदयाईए । बज्झबलाहाणाओ देइ तहा पुण्ण-पावं पि ॥२०५१॥
यथा सातं सुखम् , असातं तु दुःखं पुण्या-ऽपुण्यस्वरूपकर्मजनितमपि सक्-चन्दना-ङ्गना-हिविष-कण्टकादिना बाह्येन सहकारिणा यद् बलस्य सामर्थ्यस्याधानं विधानं तस्मादेवोदयादीन् ददाति, न त्वेवमेव पुण्य-पापोदयमात्रात् । ततश्च यथैतत् सकललोकस्यानुभवसिद्धं सुख-दुःखाख्यं कार्य बाह्यान् द्रव्य क्षेत्रादीनपेक्ष्यैवोदेति क्षीयते वा, न पुनरेवमेव, तथा तत्कारणं पुण्य-पापात्मकं कर्मापि द्रव्य-क्षेत्रादीनपेक्ष्यैवोदेति क्षीयते चेति सिद्धमेव । न हि 'कार्य द्रव्यादीनपेक्षते, तत्कारणं तु तन्निरपेक्षम्' इति शक्यते वक्तुम् ।
, उदय-क्षय क्षयोपशमो-पशमा यच्च कर्मणो भणिताः । द्रव्यादिपञ्चकं प्रति युक्तमुपक्रमणमतोऽपि ॥ २०५० ॥ २ पुण्या-पुण्यकृतमपि खलु साता-ऽसातं यथोदयादीन् । बाझवलाधानाद् ददाति तथा पुण्य-पापमिति ॥ २०५॥
सकसकस
॥८४७॥
JainEducatiora internath
For Personal and Price Use Only
[HUlwww.jainabrary.org