________________
बृहद्वत्तिः ।
विशेषा.
॥८४६॥
दयप्रसङ्गः, अय न सर्वमपि वेदितम् , तर्हि कथं न कृतनाशादिदोषः। सत्यमुक्तम्, किन्तु प्रदेशापेक्षयैव तस्य सर्वस्यापि शीघ्रमनुभवनमुच्यते, अनुभागवेदनं तु न भवत्यपीति ॥ २०४८ ॥
एतदेवाहसव्वं च पएसतया भुजइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥ २०४९ ॥
सर्वमष्टप्रकारमपि कर्म सोत्तरभेदं प्रदेशतया प्रदेशानुभवद्वारेण भुज्यते वेद्यत एव, इत्येष तावद् नियमः; अनुभागस्तु- स्वानुभवमाश्रित्येत्यर्थः, भजनीयं विकल्पनीयम्- अनुभागः कोऽपि वेद्यते, कोऽपि पुनरध्यवसायविशेषेण हतत्वाद् न वेद्यत इत्यर्थः । तदुक्तमागमे- "तत्थ णं जं तं अणुभागकम्मं तं अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ; तत्थ णं जंत पएसकम्मं तं नियमा वेएइ" इति । अतः प्रसन्नचन्द्रादिभिस्तस्य नरकयोग्यकर्मणः प्रदेशा एवं नीरसा इह वेदिताः, न त्वनुभागः, तस्य शुभाध्यवसाये न हतत्वात् । अत एव न तेषां नरकसम्भविदुःखोदयः, कर्मणां विपाकानुभव एव सुख-दुःखयोर्वेदनात् । येनैवम् , तेन बद्धस्य कर्मणः सर्वेषामपि प्रदेशानामवश्यं वेदनात् के किल तस्य कर्मोपक्रमकर्तुः कृतनाशादयो दोषाः? न केचिदित्यर्थः।।
आह-नन्वेवमप्यनुभागो यथा बद्धस्तथैव प्रसन्नचन्द्रादिभिर्न वेदित इति कथं न कृतनाशः । अस्त्वेवं कृतनाशः, न नः काचिद् बाधा, यदि ह्यध्यवसायविशेषेणोपहतत्वाद् नश्यति रसः, तदा किमनिष्टम् । सर्वस्यापि ह्यष्टप्रकारकर्मणो मूलोच्छेदाय यतन्त एव साधव इत्यभीष्ट एवेत्थं तेषां कृतनाशः। यदा बहुरसं बहुस्थितिकं च सत् कर्माल्परसमल्पस्थितिकं च कृत्वा वेदयति, तदा तस्याल्परसस्याल्पस्थितिकस्य च कर्मणः पूर्वमकृतस्यागमः, ततश्च मोक्षेऽप्यनाश्वासः, सिद्धानामप्यकृतकर्मानुगमेन पुनरावृत्तिप्रसङ्गात् , इति चेत् । तदयुक्तम् , यदि बल्बरसत्वमल्पस्थितिकत्वं च कर्मणोऽत्र निर्हेतुकं स्यात् तदा स्यादेवम् , तच्च नास्ति, अल्परसत्वस्याध्यवसायविशेषकृतत्वेनाकृताभ्यागमत्वायोगात् , अल्पस्थितिकत्वमप्यायुष्कार्दानां न निर्हेतुकमेव जायते, अध्यवसान-निमित्तादिहेतूनां दर्शितत्वात् , अतस्तस्यापि कथमकृतागमत्वम् ? । अत एव न सिद्धानां कर्मसमागमः, तदागमहेतूनां तेष्वभावात् , इत्यलं प्रसङ्गेन, भाष्यकारेणाप्यस्यार्थस्य प्रपञ्चयिष्यमाणत्वादिति ।। २०४९॥ युक्तियुक्तश्वोपक्रमः कर्मणाम् । कुतः' इत्याह
१ सर्वच प्रदेशतया भुज्यते कर्मानुभावतो भाज्यम् । तेनावश्यमनुभवे के कृतनाशादयस्तस्य । ॥ २०४९ ॥ २ तत्र यत् तदनुभागकर्म तदरत्येक वेद्यते, अस्त्येकं नो वेद्यते; तत्र यत्तत् प्रदेशकर्म तद् नियमाद् वेद्यते ।
Pa
11८४६॥
For Personal and Price Use Only
IAMw.jainmibrary.org