SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥८४५|| Jain Education Internatio ता मुक्तिगमनं कस्यापि न स्यात्, तद्भवसिद्धिकानामपि नियमेन सत्तायामन्तः सागरोपमकोटी कोटिस्थितिकस्य कर्मणः सद्भावात् । एतच्च स्वत एव वक्ष्यति । तह्ययुष एवं किमित्यत्रोपक्रमकाल उक्तो न शेषकर्मणाम् १ इति चेत् । उच्यते- लोक आयुष्कोपक्रमस्यैव प्रसिद्धत्वात् तदुपक्रमकाल एवेह प्रोक्तः, उपलक्षणव्याख्यानाच्छेष कर्मोपक्रमकालोऽपि द्रष्टव्य इति ।। २०४६ ।। अथ प्रेरकः प्राह कम्मोवक्कामिज्जइ अपत्तकालं पि जइ तओ पत्ता | अकयागम- कयनासा मोक्खाणासासया दोसा ॥ २०४७ ॥ ननु यद्यप्राप्तकालमपि बहुकालवेयं कर्मेत्थमुपक्रम्यते - इदानीमपि क्षिप्रमेत्र वेद्यते, ततस्तर्ह्यकृतागम कृतनाशी, मोक्षानाश्वासता चेत्येते दोषाः प्राप्ताः तथाहि यदिदानीमेवोपक्रमात् कृतात्पस्थित्यादिरूपं कर्म वेद्यते तत् पूर्वमकृतमेवागतम्, इत्याकृताभ्यागमः । यत् तु पूर्व दीर्घस्थित्यादिरूपतया कृतं बद्धं तस्यापवर्तनाकरणोपक्रमेण नाशितत्वात् कृतनाशः । ततो मोक्षेऽप्येवमनाश्वासः, सिद्धानामप्येवम कृतकर्माभ्यागमेन प्रतिपातप्रसङ्गादिति ॥। २०४७ ॥ अत्रोत्तरमाह- हिदीहकालियरस विनासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो || २०४८॥ 'न कृतनाशादयो दोषाः' इति प्रकरणाद् गम्यते । कुतः १ इत्याह- न यस्मात् तस्यायुष्कादेः कर्मणो दीर्घकालिकस्यापि दीर्घ स्थित्यादिरूपतया बद्धस्याप्युपक्रमेण नाशः क्रियते । कुतः ? इत्याह- क्षिप्रं शीघ्रमेव सर्वस्यापि तस्याध्यवसायवशादनुभूतेर्वेदनात् । यदि हि तद्बहुकालवेद्यं कर्मावेदितमेव नश्येत् यच्चात्पस्थित्यादिविशिष्टं वेद्यते तत् ततोऽन्यदेव भवेत्, तदा कृतनाशा ऽकृताभ्यागमौ भवेताम् ; यदा तु तदेव दीर्घकालवेद्यमध्यवसायविशेषादुपक्रम्य स्वल्पेनैव कालेन वेद्यते तदा कथं कृतनाशादिदोषः १ । यथा हि बहुकालभोग योग्य स्याहारस्य धान्यमूढकदशकादेरग्निरोगिणो भस्मकवातव्याधिमतो द्रुतं स्वल्पकालेनैव भोगो भवति, न च तत्र कृतनाशः, नाप्यकृताभ्यागम इति एवमिहापि भावनीयमिति । अत्राह - ननु यद् बद्धं तयदि स्वल्पकालेन सर्वमपि वेद्यते, तर्हि प्रसन्नचन्द्रादिभिः सप्तमनरक पृथ्वी योग्यमसात वेदनीयादिकं कर्म बद्धं श्रूयते, तद्यदि सर्वमपि तैर्वेदितं तर्हि सप्तमनरकपृथ्वी सम्भविदुःखो १ मपक्रम्यतेऽप्राप्तकालमपि यदि ततः प्राप्ताः । अकृतागम-कृतनाशी मोक्षानाश्वासता दोषाः ॥ २०४७ ॥ २ न हि दीर्घकालिकस्य विनाशस्तस्यानुभूतितः क्षिप्रम् । बहुकालाहारस्येव द्रुतमभिकरोगिणो भोगः ॥ २०४८ ॥ For Personal and Private Use Only बृहद्वत्तिः । 1168411 w.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy