________________
विशेषा०
||८४४॥
Jain Educator Intern 13
दीनां समीपीकृतं स एषः- समस्तसाधुवर्गप्रत्यक्षः, 'ओहाइ ति' ओघनिर्युक्तिः, तथा 'इच्छा मिच्छा तहक्कारों' इत्यादिदशधासामाचाप्रतिपादको ग्रन्थः, छेदसूत्राणि चेति त्रिविधः समयचर्यया समयपरिभाषयोपक्रमः सामाचार्युपक्रमकालो भण्यत इत्यर्थः । इदमुक्तं भवति - लोके सामाचार्युपक्रमकालतया न कश्चित् कालो रूढः समस्ति आगमे पुनरसौ भण्यते । कथम् ? इति चेत् । उच्यते येन प्रभूतेन कालेन नवमपूर्वादिगतं सामाचारीश्रुतं शिष्योऽध्येतुमलप्स्यत, स कालः सामाचारीश्रुतोपक्रमणद्वारेण स्थविरैरुपक्रम्य किलार्वागप्यानीतः, तत्काललभ्यस्य सामाचारीश्रुतस्य स्थविरैरिदानीमपि विनेयेभ्यः प्रदानात् । ततश्च सामाचार्युपक्रमद्वारेणोपचारतः कालस्यापि तस्योपक्रान्तत्वात् सामाचार्युपक्रमकालोऽसौ भण्यत इति ।। २०४४ ॥
आयुष्कोपक्रमस्यापि यथायुष्कोपक्रमकालतां दर्शयन्नाह -
जीवियसंवट्टणमज्झवसाणाइहे उसंजणियं । सोवकमाउयाणं स जीवितवक्कमणकालो || २०४५॥
जीवितोपक्रमणकालो यथायुष्कोपक्रमणकालोऽभिधीयत इत्यर्थः यत् । किम् ? इत्याह- यज्जीवितस्य यथावद्धस्य दीर्घकालवेद्यस्यायुष्कस्य संवर्तनं स्वल्पस्थितिकत्वापादनम् । केषाम् ? सोपक्रमायुषां जीवानाम्, निरुपक्रमायुषां निकाचितावस्थस्यैव बद्धत्वादपवर्तनायोगात् । किं नु निर्हेतुकमेव जीवितसंवर्तनम् १ ।न, इत्याह- अध्यवसान-निमित्तादिहेतुसंजनितम् । अत्राप्ययमभिप्रायः| यश्विरेण मरणकालो भविष्यदसावायुष्कर्मस्थित्यपवर्तनद्वारेणोपचारतः किलोपक्रम्यावगानीत इत्यसौ यथायुष्कोपक्रमकाल उच्यत इति ।। २०४५ ।।
नन्वेवमुपक्रमः किमायुष एव भवति, आहोस्विदन्यासामपि ज्ञानावरणादिप्रकृतीनाम् ? इति विनेयमाशङ्कयाह
सेव्व गईणमेवं परिणामवसादुवक्कमो होज्जा । पायमनिकाइयाणं तवसा उ निकाइयाणं पि ॥ २०४६ ॥ न केवलमायुषः, किन्तु सर्वासामपि ज्ञानावरणादिप्रकृतीनां शुभाशुभपरिणामवशादपवर्तन करणेन यथायोगं स्थित्यादिखण्डनद्वारेणापवर्त्यमानानामुपक्रमो भवति । स च प्रायो निकाचनाकरणेनानिकाचितानां स्पृष्ट-बद्ध-निघत्तावस्थानामेव भवति । प्रायो ग्रहणस्य फलमाह - तीव्रेण तपसा पुनर्निकाचितान्यपि कर्माण्युपक्रम्यन्त एव । यदि पुनर्यथा बद्धं तथैवानुपक्रान्तं सर्वमपि कर्म वेद्यते,
१ यज्जीवितसंवर्तनमध्यवसानादिहेतुसंजनितम्। सोपक्रमायुष्काणां स जीवितोपक्रमणकालः | २०४५ ॥
२ सर्वप्रकृतीनामेवं परिणामवशादुपक्रमो भवेत्। प्रायोऽनिकाचितानां तपसा तु निकाचितानामपि ॥ २०४६ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
||८४४||
www.jainelibrary.org