SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥८५०|| अथवा, प्रकारान्तरेण प्रमाणयन्नाहसज्झामयहेऊओ सज्झनियाणासओऽहवा सझं । सोवक्कमणमयं पिव देहो देहाइभावाओ ॥ २०५७ ॥ अथवा, सहोपक्रमणेन वर्तते सोपक्रमणं वेदनीयादिकं साध्यमुपक्रमक्रियाविषयभूतं कर्मेति प्रतिज्ञा । उपक्रमस्य साध्यश्चासावामयश्च साध्यामयस्तहेतुत्वादिति हेतुः । यथाऽयमेव प्रत्यक्षो देहः, गण्डच्छेदादिद्वारेण देहोऽपि साध्य उपक्रमक्रियाविषयः सोपक्रमश्चेति साध्यविकलत्वाभावो दृष्टान्तस्य । साध्यामयस्य च गण्डादेः कारणत्वाद् देहस्य साधनविकलत्वस्याप्यभावः । अथवा, हेत्वन्तरभावादन्यथा प्रमाणम्-सोपक्रमणं साध्यं कर्मेति सैव प्रतिज्ञा, साध्यनिदानाश्रयत्वादिति हेतुः । तत्र निदानं कारणं साध्यकर्मजनकं च निदानमपि साध्यमुच्यते, साध्यं च तद् निदानं च साध्यनिदानम् , तस्याश्रयः साध्यनिदानाश्रयः, तद्भावः साध्यनिदानाश्रयत्वं, तस्मात् साध्य| निदानाश्रयत्वात् साध्यनिदानजन्यत्वादिति भावः । निदानस्य साध्यत्वं कथं ज्ञायते ? इति चेत् । उच्यते- साध्यकर्यजनकत्वात् । कर्मणोऽपि साध्यत्वं कथमवसीयते ? इति चेत् । उच्यते-- उपक्रमान्यथानुपपत्तेरिति । आह- ननूपक्रम एच ह्यत्र साध्यः, ततस्तदसिद्धौ कर्मणः साध्यत्वं न सिध्यति, तदसिद्धौ तु कर्मजनकनिदानस्यापि साध्यत्वासिद्धिः, इति 'साध्यनिदानजन्यत्वात्' इति साध्यत्वविशेषणासिद्धयाऽसिद्धो हेतुरिति । सत्यम् , किन्त्वेवं मन्यते- “जैइ ताणुभूइउ चिय खविजए कम्म' इत्यादिग्रन्थोक्तयुक्तिभ्यः सिद्धमेव कर्मणः सोपक्रमत्वम् , ततस्तत्सिद्धौ कर्मणः साध्यत्वं सिध्यति, तत्सिद्धौ च साध्यकर्मजनकतया तज्जनकनिदानस्यापि साध्यत्वसिद्धिरिति । यद्येवं पूर्वोक्तयुक्तिभ्य एव सिद्ध कर्मणः सोपक्रमत्वम् , इह पुनरपि तत्साधनमपार्थकमिति चेत् । सत्यम् , किन्तु प्रपञ्चप्रियाविनेयानुग्रहार्थत्वाददोषः। यदिवा, कर्मणो निदानमध्यवसायस्थानान्येव, तानि च चित्रत्वेनासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि, अतस्तेषु मध्ये यथा निरुपक्रमजनकानि तथा सोपक्रमकर्मजनकान्यप्यध्यवसायस्थानानि विद्यन्त एवेति, तद्वैचित्र्यान्यथानुपपत्तेः; इत्यादियुक्तितः साध्यकर्मजनकनिदानस्य साध्यत्वं साधनीयम् । तत्सिद्धौ च तत्कार्यस्य कर्मणोऽपि साध्यत्वं सोपक्रमणत्वं च सिध्यति, इत्यलं प्रपञ्चेन । यथाऽयं देह इति स एव दृष्टान्तः । अस्य च गण्डच्छेदादिद्वारेण च्छिद्यमानत्वात् सोपक्रमत्वम् , अत एव साध्यनिदानजन्यता । अतः साध्य-साधनधर्माभ्यामस्याविकलतेति । अथवा, हेत्वन्यथात्वेनान्यथा प्रमाणम्- 'देहाइभावाउ चि' सोपक्रमणं साध्यमुपक्रमक्रियाविषयभूतं कर्मेति प्रतिज्ञा सैव । देहादौ १ साध्यामयहेतुतः साध्यनिदानाश्रयतोऽथवा साध्यम् । सोपक्रमणमयमिव देहो देहादिभावात् ॥ २०५७ ॥ २ गाथा २०५२ । ॥८५०॥ For Personal Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy