SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥८५|| भावात् , आदिशब्दाजीवे च भावादिति हेतुः । देहे जीवे च किल वर्तते कर्म, केवलं जीवे वन्ययःपिण्डन्यायेन तस्य वृत्तिः, देहे स्वाधाराधेयभावेन जीवो वर्तते, तद्द्वारेण च कर्मापीति, यथाऽयमेव प्रत्यक्षो देह इति दृष्टान्तः । नन्वाधाराधेयभावेन देहस्यापि जीवे वृत्तियुक्ता, 'देहस्य च देहे वृत्तिः' इत्येतत् कथम् ? । सत्यम् , 'सर्वे भावाः स्वात्मनि वर्तन्ते, वस्त्वन्तरे चाधारे' इति न्यायाद् देहस्यापि देहवृत्तियुज्यत एव । अथवा, अस्यौदारिकादिदेहस्य जीववत् कार्मणलक्षणे देहेऽपि वृत्तिः प्रतीतैव, इति न देहादौ भावात्' इति साधनधर्मविकलता दृष्टान्तस्येति ।। २०५७ ॥ अथ कर्मणः सोपक्रमत्वसिद्धावुपपत्यन्तराण्याह'किंचिदकाले वि फलं पाइज्जइ पच्चए य कालेणं । तह कम्मं पाइजई कालेण विपच्चए वणं ॥ २०५८ ॥ भिण्णो जहेह कालो तुल्ले वि पहम्मि गइविसेसाओ । सत्थे व गहणकालो मइ-मेहाभेयओ भिन्नो ॥२०५९।। तह तुल्लम्मि वि कम्मे परिणामाइकिरियाविसेसाओ । भिण्णोऽणुभवणकालो जेट्ठो मज्झो जहन्नो य ॥२०६०॥ जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । वियओ पडो व सुस्सइ पिंडीभूओ य कालेणं ॥२०६१॥ भागो य निरोवट्टो हीरइ कमसो जहण्णहा खिप्पं । किरियाविसेसओ वा समे वि रोग चिगिच्छाए ॥२०६२॥ व्याख्या- अथवा, यथा किञ्चिदाम्र-राजादनादिफलं यावता कालेन वृक्षस्थं क्रमेण पच्यते तदपेक्षयार्वाक्कालेऽपि गर्ताप्रक्षेप-पलालस्थगनाद्युपायेन पाच्यते, अन्यत्तु वृक्षस्थमेवोपायाभावतः क्रमशः खपाककालेन पच्यते, तथा कर्माप्यायुष्कादिकं किमप्यध्यवसानादिहेतुभिर्बन्धकालनिवर्तितवर्षशतादिरूपस्थितिकालापेक्षयाऽकालेनाप्यन्तर्मुहूर्तादिना पाच्यते वेद्यते- अनुभूय पर्यन्तं नीयत इति तात्पर्यम्, अन्यत्तु बन्धकालनिवर्तितवर्षशतादिलक्षणस्थितिकालेनैव संपूर्णेन विपच्यते- अनुभूयत इति । अथवा, यथेह १ किञ्चिदकालेऽपि फलं पाच्यते पच्यते च कालेन । तथा कर्म पाच्यते कालेन विपच्यते चान्यत् ॥ २०५८ ॥ भिन्नो यथेह कालस्तुल्येऽपि पधि गतिविशेषात् । शास्त्रे वा ग्रहणकालो मतिमेधाभेदतो भिन्नः ॥ २०५९ ॥ तथा तुल्येऽपि कर्मणि परिणामादिक्रियाविशेषात् । भिन्नोऽनुभवनकालो ज्येष्ठो मध्यो जघन्यश्च ॥ २०६० ॥ बधा वा दीर्घा रम्र्वद्यते कालेन पुजिता क्षिप्रम् । विततः पढो वा शुष्यति पिण्डीभूतक कालेन ॥ २०१॥ भागश्च निरपवतों हियते क्रमशो यथाऽन्यथा क्षिप्रम् । क्रियाविशेषतो वा समेऽपि रोगे चिकित्सया ॥ २०६२॥ २ क.ग.ज. 'इ पाएण वि। ॥५१॥
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy