SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विशेषा ८५२॥ LOCCC तुल्येऽपि त्रियोजनांदिके पथि त्रयाणां पुरुषाणां गच्छतां प्रहरैक-द्वि-व्यादिलक्षणो गतिविशेषाद् भिन्नो गतिकालो दृश्यते, एवं कर्मणस्तुल्यस्थितिकस्यापि तीव्र-मन्द-मध्यमाध्यवसायविशेषाजघन्य-मध्यमो-त्कृष्टलक्षणस्त्रिविधोऽनुभवकालो भवति । यदिवा, | यथा तुल्येऽपि शास्त्रेऽध्येतॄणां मतिग्रहणबुद्धिः, मेधा पुनरिहावधारणाखरूपा गृह्यते, तद्भेदात् त्रिविधो ग्रहणस्य पठनस्य कालो भिन्नोऽनेकरूपो विलोक्यते, एवमायुषोऽपि परिणामविशेषात् तुल्यस्थितिकस्याप्यनेकरूपोऽनुभवनकाल इति । | पथि-शास्त्रदृष्टान्तयोः प्रकृतयोजनामाह-'तह तुल्लम्मि वीत्यादि' गतार्थेव, नवरं 'परिणामाइकिरियाविसेसाउ त्ति' परिणामोऽध्यवसानम् , आदिशब्दाद् बाह्या दण्ड-कशा-शस्त्रादयो गृह्यन्ते, क्रिया चारित्रलक्षणा, परिणामादयश्च क्रिया च परिणामादि-क्रियास्तद्विशेषात् तद्भेदाद् बहुभिस्तुल्यस्थितिके बद्धेऽपि कर्मणि भिन्न एवानुभवनकाल इति । यथा दीर्घा प्रसारिता रज्जुरेकस्मात् पक्षात् क्रमेण ज्वलन्ती प्रभूतेनैव कालेन दह्यते, पुञ्जीकृता तु पिण्डीकृता तु ज्वलन्ती क्षिप्रं शीघ्रमेव भस्मीभवति, एवं कर्माप्यायुष्कादिकं दीर्घकालस्थितिकं प्रतिसमयं क्रमेण वेद्यमानं चिरकालेन वेद्यते, अपवर्त्य पुनर्वेद्यमानमल्पेनैव कालेन वेद्यत इति । यथा वा जलार्द्रः पिण्डीभूतः पटश्चिरकालेन शुष्यति, विततः प्रसारितः पुनरल्पेनैव कालेन शुष्यति, एवं कर्मापि, इत्युपनयस्तथैव । यथा वा लक्षादिकस्य महतो राशेर्निरपवर्तनोऽपवर्तनारहितो भागः क्रमशश्चिरेण हियते, अन्यथा पुनरपवर्तनायां विहितायां क्षिप्रं शीघ्रमेवापहियते; तथाहि किल लक्षप्रमाणस्य राशेर्दशभिर्भागो हरणीयः, स च यद्यपवर्तनामन्तरेण हियते तदा महती वेला लगति, यदा तु गुण्यस्य लक्षस्य गुणकारकस्य च दशलक्षस्य पञ्चभिरपवर्तना विधीयते पञ्चभिर्भागो हियत इत्यर्थः, तदा शीघ्रमेव हियते भागः, लक्षस्य हि पञ्चभिभीगे हृते लब्धानि विंशतिः सहस्राणि, दशानां तु पञ्चभिर्भागे हृते लब्धौ द्वौ । एताभ्यां विंशतिसाहसिकस्य लघुराशेभोगे हृते झटित्येव. दश सहस्राण्यागच्छन्ति, अनपवर्तितैस्तु दशभिरनपवर्तितस्यैव लक्षस्य दी? भागापहारकालो भवति । एवमायुषोऽप्यनपवर्तितस्य दीर्घोऽनुभवनकालः, अपवर्तितस्य तु लघुरसाविति । यथा वा समेऽपि कुष्ठादिके रोगे क्रियाविशेषाचिकित्साया रोगनिग्रहलक्षणायाः कालभेदो भवति, एवमायुषोऽपीति । तदेवं सति सप्रसङ्गो द्विविधोऽप्युक्त उपक्रमकालः ॥२०५८॥२०५९॥२०६०॥२०६१॥२०६२॥ इदानी देशकालमभिधित्सुस्तत्स्वरूपं विकृण्वन्नाहजो जस्स जयाऽवसरो कजस्स सुभासुभरस सोपायं । भण्णइ स देसकालो देसोऽवसरो त्ति थक्को त्ति ॥२०६३॥ । यो यस्य यदावसरः कार्यस्य शुभाशुभस्य सोपायम् । भण्यते स देशकालो देशोऽवसर इति थक्क इति ॥ २०६३ ॥ ||८५२॥ PAROI Jan Eda Interna For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy