________________
विशेषा.
बृहद्वत्तिः ।
॥८५३॥
देशः, अवसरः, थक्कमिति पर्यायाः, तद्रूपकालो देशकालः स भण्यते । कः? इत्याह-यो यस्य शुभस्याशुभस्य वा कार्यस्य निश्चितो यदावसरः स देशकालो भण्यते । कथं निश्चितः ? इत्याह- सोपायं- वक्ष्यमाणोपायत इत्यर्थः । इति विंशतिगाथार्थः ।। २०६३ ॥
तत्र शुभस्य साध्वादिभिक्षालक्षणस्य कार्यस्य निश्चयोपायगर्भ प्रस्तावकालमाह'निहूमगं च गामं महिलाथूभं च सुण्णयं दटुं। नीयं च काया ओलिंति जाया भिक्खस्स हरहरा ॥२०६४॥
ओदनादिपाकक्रियापरिसमाप्तौ निधूमकं च ग्राम, पानीयवाहिकामहिलास्तूभं चे कृपादित शून्यं दृष्ट्वा, तथा, नीचं च काकाः 'ओलिंति त्ति' अवलीयन्ते- गृहाणि प्रत्यागच्छन्ति, इत्यादि च चिह्न दृष्टा जानीयाद् यथा संजाता भैक्षस्य हरहरेति- अतीव भिक्षाप्रस्ताव इति ॥ २०६४ ॥
अथाप्रशस्तस्य कार्यस्य निश्चयोपायपूर्वकं प्रस्तावकालमाह
निम्मच्छियं महं पायडो निही खज्जगावणो सुन्नो। जा यंगणे पसुत्ता पउत्थवइया य मत्ताशु॥२०६५॥
निर्माक्षिकमपगतसकलमाक्षिकं मधु, तथा, प्रकटश्चाकाशीभूतो निधिः, इत्येतद् दृष्ट्वा तद्ग्रहणस्य यः प्रस्तावो ज्ञायते स देशकालः । तथा, खाद्यकापणः कुल्लूरिकहट्टः शून्य इत्यवलोक्य यस्तद्गतखाद्यानां ग्रहणप्रस्तावो निश्चीयते, तथा, यामङ्गणे प्रसुप्ता पोषितपतिका च मदिरामत्ता च, तस्या अपि तदानीमतीव मदनाकुलीकृतत्वाद् यो ग्रहणमस्तावो विज्ञायते स सर्वोऽपि देशकालः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २०६५ ॥
अथ कालकालमभिधित्सुर्भाष्यकारस्तव्याख्यानमाह__ कालो त्ति मयं मरणं जहेह मरणं गउत्तिकालगओ। तम्हास कालकालो जो जस्स मओ स मरणकालो॥२०६६॥
एकः कालशब्दः 'कलनं कालः' इत्यादिना प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु कालोऽत्र मरणम् । इह यथा लोके मरणं गतः प्राप्तः कालगत इत्युच्यते, अतोऽनयैव लोकरूड्या द्वितीयः कालशब्दो मरणवाचकः। ततः किमिह स्थितम् ? इत्याह- तस्माद् यो यस्य पाणिनो मरणकालः स तीर्थकृतां कालकालो मतः ॥ इति गाथार्थः ॥ २०६६ ॥ १छ. 'थकमि' । २ निघूमकं च ग्राम महिलास्तूभं च शून्यकं दृष्ट्वा । नीचं च काका अवलीयन्ते जाता भैक्षस्य हरहरा ॥ २०६४ ॥
३निर्माक्षिकं मधु प्रकटो निधिः खाचकापणः शून्यः। या वाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च ॥ २०६५॥ . काल इति मतं मरणं यह मरणं गत इति कालगतः । तस्मात् स कालकालो यो यस्य मतः स मरणकालः ॥ २०६६ ॥
८५३॥
For Posol
s en